________________
२३४
आरम्भ-सिद्धिः
२सौ
४ सो
१क्र
१२ सौ
चं १०
क्रू ११
कूर्मः पुत्रार्थररन्ध्रान्त्ये १ष्वारमन्देन्दु भास्करैः ११ । वापी पापैस्तु केन्द्रस्थै १योगाः स्युर्द्वादशेत्यमी ॥ ४७ ॥ व्याख्या---- - कूर्मयोगे स्थानानां ग्रहाणां च यथासङख्यं ज्ञेयं । रत्नमालायां तु गजादिचतुष्कलक्षणमेवमूचे - "तनुनवभवगैः क्रमेण योगो, बुधविबुधार्चितपङ्गुभिर्गजः स्यात् । अत्र भवेत्येकादश रुद्रा इत्येकादशं गृहं लक्ष्यते ।
,"
66
""
व्ययरिपुहिबुकेषु वक्रशुक्रद्युमणिसुतैः क्रमशः कुठार एपः ॥ १ ॥ रविकविरविजेन्दुभिः क्रमेण, व्ययधनषनिधनेषु कूर्म एषः । व्ययनिधनतनूषु मन्दचन्द्रारुणकिरणैर्मुशलं जगुर्मुनीन्द्राः ॥ २ ॥ एभ्यः श्रीवत्सपूर्वाः षट् पूर्वे सर्वेषु कर्मसु । श्रेयस्तमा धनुर्मुख्यास्त्वन्यथा स्युः षडुत्तरे ॥ ४८ ॥
व्याख्या--- - श्रीवत्सपूर्वा इति श्रीवत्साद्याः षट् पूर्वे प्रथमा: । अन्यथेति अत्यन्तमशुभाः । विशेषस्तु —
"(
उमगे मम्मं १ नवपंचमि क्रूरकंटयं भणियं २ | दसम उत्थे खलं ३ कुरा उदयत्थितं छिद्दं ४ ॥ १ ॥ मम्मदोसेण मरणं कंटयदोसेण कुलख्खओ होइ । सल्लेण रायसत्तू छिद्दे पुत्तं विणासेह ॥ २ ॥ इति पूर्णभद्रः ॥ आनन्द १जीव २ नन्दन ३ जीमूत ४जय५ स्थिरा ६ मृता७योगाः । ज्ञगुरुसितैः प्रत्येकं द्विकत्रिकैश्चापि लग्नगतैः ॥ ४९ ॥
व्याख्या - लग्ने स्थितैः प्रत्येकं ज्ञायैः क्रमेणानन्दादि त्र्यं ३, शगुरुभ्यां जीमूत: ४, ज्ञशुक्राभ्यां जय: ५, गुरुशुक्राभ्यां स्थिरः ६, त्रिभिरपि लग्नस्थैरमृतः ७ । द्विकत्रिकैश्चेति द्विका द्वयरूपाः, त्रिकास्त्रयरूपाः u
Aho! Shrutgyanam