________________
२३२
आरम्भ-सिद्धिः
जामिनेशः पतिः स्त्रीणां श्वशुरो भृगुभास्करो। तैरुचादिस्थितैस्तेषां श्रेयः स्यादन्यदन्यथा ॥ ४० ॥
व्याख्या-श्वशुराविति भृगुः श्वश्रूः, रबिः श्वशुरः, एकशेषे श्वशुरौ । तैरति जामिनेशाद्यैः । उच्चादीति स्वोच्चे दीप्तः १ । स्वः स्वस्थः २ । सुहृद्गृहे मुदिलः ३ । स्ववर्गगः शान्तः ४ । स्फुटकिरणभृत् शक्तः ५। स्वं नीचमतिक्रान्तः स्वोचाभिमुखः प्रवृद्धवीर्यः ६ । स्वांशस्थः सौम्यैदृष्टोऽधिवीर्यः ७ । सूर्यहतो विकल: ८ । शत्रुगृहे खलः ९ । ग्रहविजितः पीडितः १० । नीचः दीनः ११ । इति लल्लोक्तास्वेकादशसु ग्रहावस्थासु शुभावस्थैः तेषां पत्यादीनां । अन्यदन्यथेति, भास्वेवावस्थास्वशुभावस्थैर्जामिनेशशुक्राः क्रमात्तेषां पत्यादीनामश्रेयः ॥ तथा
लग्नोदितांशः स्वेशेन युतो दृष्टोऽथवा नृणाम् । तद्वजामित्रगः स्त्रीणामिष्टोऽनिष्टो विपर्यये ॥ ४१ ॥
व्याख्या-लग्नेऽधिकृत उदयी यो नवांशः स लग्नोदितांशः तक्षामा राशिर्यत्र तत्र स्थितोऽपि चेत्स्वस्वामिना युतो दृष्टो वा स्यात्तदा लग्नोदितांशः स्वेशयुतदृष्ट उच्यते । स नृणामिति वरस्य इष्ट इति लग्नस्थो यत्सङ्ख्योऽश उदयी तत्सङ्ख्यः सप्तमगृहस्यांशो यदि पूर्ववत् स्वेशयुतदृष्टस्तदा स्त्रीणामिति कन्यायाः शुभदः । विपर्यय इति उदयी लग्नांशश्चेत् स्वेशयुतदृष्टो न स्यात्तदा पत्युमत्युः। द्यनस्य तत्सङ्ख्य एवांशश्चेत् स्वेशयुतदृष्टो न स्यात्तदा वध्वा मृत्युः । तदयं भावः-एकः किलोदयास्तशुद्धिप्रकारोऽयं । यदुक्तं यतिवल्लभे"लग्नोदिते तत्प्रभुणा नवांशे, दृष्टे युते वोदयशुद्धिरुक्ता । तत्सप्तमांशे तु कलत्रभाजि, स्वस्वामिनैवं कथिताऽस्तशुद्धिः ॥ १॥"
___ अत्र तत्मप्तमांशे स्विति कोऽर्थः ? लग्ने यावतिथोऽश उदितः सप्तम. भावस्य कलत्राख्य स्य तावतिथोऽशो लग्नोदितांशाद्गणनया सप्तम एव स्यात् , इत्येकोऽयमुदयास्त शुद्धयोः प्रकारः । अन्दश्चाने वक्ष्यते । उभावपि चोदयास्तशुद्विप्रकारौ विवाह लग्नेष्ववश्यं ग्राह्यौ । भास्करस्तु पञ्चमगृहे तावतिथं पुत्रनवांशकमपि स्वेशयुतदृष्टमिच्छति । आह च
Aho! Shrutgyanam