________________
२३०
आरम्भ-सिद्धिः
विवाहे त्वर्कीि त्रिरिपु६निधना८ ११येषु शुभदौ, विधुः स्व२त्र्या ३येषु११ क्षितितनय आय ११त्रि३ रिपुगः। बुधेज्यौ सप्ता ७ ष्ट ८ व्यय १२ विरहितावास्फुजिदरि६स्मरा७ष्टान्त्या१२न्मुक्त्वा वितनु१सुख४कामेवथ तमः।
व्याख्या--स्वव्यायेष्वपि, यल्लल्लः-. “योन्दु यगतो न तृतीयो न द्वितीयगश्चापि ।। अनुकूलैरपि शेषैस्तल्लग्नं वर्जयेन्मतिमान् ॥१॥” सप्ताष्टेति यच्छौनकः - " सप्तमगते बुधे सति सप्ताब्दान्मारयेत् पतिं कन्या । मासत्रयेण कन्या निधनगते पश्चतां याति ॥ १ ॥ आयुःसोभाग्ययोभङ्गः पुंसां द्यूनगते गुरौ । भृगौ तु योषितामाह विवाहे देवलो मुनिः ॥ २॥" आस्फुजित् शुक्रः । अरिस्मराष्टेति, यदुक्तं दैवज्ञवल्लभे
" लग्नस्थेऽपि गुरौ दुष्टे, भृगुः षष्ठोऽष्टमः कुजः ।" इति । वितन्विति यच्छौनकः-"लग्नस्थो वरमरणं राहुर्दिशति धुने कनीमरणम् ।” इति । " त्यज्या लग्नेऽब्धयो मन्दात् "
इति श्लोकोक्तभङ्ग स्थानानि तुर्यं च विना शेषेषु पञ्चमसप्तमेषु नवमदशमानामन्यतमे सौम्यक्षेत्र शुभदृष्टश्च शशी रेखाप्रद एवेति त्रिविक्रमः ॥
अथ षष्ठाटमद्वादशस्थानानामशुभत्वात्तत्र ग्रहस्थितिनिर्धारसङ्ग्रहमाहविवाहे नाष्टमाः श्रेष्ठाः पञ्च सूर्यशनी विना । षष्ठी चेन्दुसितौ तद्वदन्त्येऽन्त्य इति केचन ।। ३७ ॥
व्याख्या--शुक्रशनी स्वष्टमावपि श्रेष्ठौ, न शेषाः । षष्ठौ चेन्दुसितो तद्वदिति चन्द्रशुक्रौ षष्टौ न श्रेष्ठौ, शेषाः पञ्च श्रेष्ठा एव । केचिस्वाहु:-भन्स्ये द्वादशेऽन्त्यः केतुर्न श्रेष्ठः । एषा किलोत्तमभङ्गे ग्रहसंस्था । विशेषस्तु" भौमे लग्नकलत्रनधनगते शुक्रे रिसप्ताटगे, चन्द्रे रन्ध्रविलग्नषष्ठनिरते लग्नास्तगे भास्वति । तद्वद्भानुसुते गुरौ निधनगे सौम्येऽष्टजामित्रगे, जायाम्भोनिधिलग्नभाजि तमसि प्राहुर्न पाणिग्रहम् ॥ १॥
Aho! Shrutgyanam