________________
२२०
आरम्भ-सिद्धिः
हर्षप्रकाशे तु वृषांश: शुक्र पत्कोऽपि वर्गोत्तमत्वादनुज्ञातः, तथाहि" मेसविसाणं मुत्तूण सेसरासीण पंचमे अंसे ।
नय दिख्खिज जओ सो विणसइ तह तह पओगाओ ॥१॥" अथ विवाहे लग्नांशायाहविवाहे नाग्रहः कोऽपि लगानामिह केवलम् । नवांशा धनुराधाद्धयुग्मकन्यातुलाः शुभाः ॥ २२ ॥
___ व्याख्या-नाग्रह इति, एतानि लग्नानि ग्राह्याणि, एतानि हेयानीति यो नियमः स आग्रहः। स किल यथा प्रतिष्ठादीक्षयोरुक्तस्तथा विवाहे कोऽपि नास्ति । केवलमिहेति विवाहे यत्तल्लग्नमस्तु, परमंशा एत एव मनुष्यत्वाद् ग्राह्या, नान्ये, "मनुष्यांशेभ्योऽन्यत्रासती दरिद्रा च स्यादिति" रत्नमालाभाष्योतः । “धनुषि पराभवयुक्तां" इति केऽप्याहुः । ग्रन्थकृन्मते तु धनुरन्त्यार्धमेव विरुद्ध पूर्वार्धस्य मनुष्यत्वात् । रत्नमालायां तु लग्नान्यपि नियमितानि" कन्या नृयुग्मं च वणिग्विलग्ने, स्थितो विवाहः शुभमादधाति " । इति परं तेष्वयंशनियमो यथोक्त एव । यद्भास्करः
" निन्द्यपि लग्ने द्विपदांश इष्टः, कन्यादिलग्नेष्वपि नान्यभागः " इति । व्यवहारप्रकाशे त्वेवमचे"धन्वंशो न बुधास्ते भौमास्ते नो तुलांशकः कार्यः ।
न तुलांशश्चरलग्ने देयस्तुलमकरसंस्थेन्दौ ॥ १ ॥" अथ सर्वलग्नसाधारणमाहत्रिष्वपि क्रूरमध्यस्थौ शुक्रराश्रितयुनौ । नेष्टौ लग्नविधु केन्द्रस्थितसौम्यौ तु तो मतौ ॥ २३ ॥
व्याख्या-त्रिष्वपीति प्रतिष्ठादीक्षोद्वाहेषु । मध्यस्थाविति एतेनायमर्थःलग्नस्य द्वयोरपि पार्श्वयोद्वितीयद्वादशगृहयोश्चेत् करग्रही चन्द्रस्यापि चैवमिति
द्वधाऽपि क्रूरकर्तरी । इयं च प्रत्येकं वेधाअतिदुष्टा । दुष्टा २ अल्पदुष्टा३ च । तथाहि-यदा धनस्थः करग्रहोवक्री व्यय. स्थस्तु मध्यगतिः रस्तदोभयतः संघटमानाकरकर्त्तयतिदुष्टा । स्थापना यथा--
___यदा तु व्ययस्थः ऋरोऽतिचरितखदा ६ . विशिष्यातिदुष्टा, शीघ्रमेव संघटमानत्वात
१ । यदा धनव्य ययोरपि मध्यगती करो, यद्वा द्वयोरपि तयोः वक्रगती क्रूरौ तदा मध्यदुष्टा सा, एकत एव संघटमा
Fer
-
-
-
MERA
Aho! Shrutgyanam