________________
पञ्चम विमर्शः
२२१
नत्वात् २ । यदा तु धने मध्यगतिः करो व्यये च वक्री तदाऽल्पदुष्टा, कर्तर्या उभयतोऽपि विघटमानत्वात् , तत्रापि धनस्थश्चेदतिचारवाँस्तदा तु विशिष्य स्वल्पदुष्टा, शीघ्रमेव विघटमानत्वात् ३ । भावना स्थापनायां कार्या । एवं चन्द्रस्यापि पार्शद्वयस्थग्रहैः क्रूरकर्तर्यास्त्रिविधता भाव्या । विशेषस्तु" क्रूर ग्रहस्यान्तरगा तनुर्भवेन्मृतिप्रदा शीतकरश्च रोगः ।
शुभैर्धनुस्थैरथवान्त्यगे गुरौ, न कर्तरी स्यादिह भार्गवा विदुः ॥१॥ त्रिकोणकेन्द्गो गुरुस्त्रिलाभगो रविर्यदा। तदा न कर्तरी भवेज्जगाद बादरायणः ॥ २ ॥"
अपि चान्यलग्नाभावेन यदि क्ररकर्तरी त्यक्तुं न शक्यते, तदा लग्नस्योभयपार्श्वयोः प्रत्येकं पञ्चदशानां त्रिंशांशानां मध्ये यदि ऋर ग्रहौ स्यातां तदा सा क्रूरकर्तर्य वश्यं त्याज्या । एवं चन्द्रस्यापि । यदुक्तं व्यवहारप्रकाशे“पूर्व पश्चात् पापात्तिथ्यंशा १५ घाटमध्यगश्चन्द्रः । वर्जयितव्या योगे यस्मादाश्यंशरश्मियुतिः ॥ १ ॥ "
शुक्ररेति, लग्नाचन्द्राच्च सप्तमे शुक्रः क्रूरग्रहो वा चेत्स्यात्तदा जामित्राख्यो दोषः । उक्तश्च" उदयात्सप्तमसंस्थे शुक्रे सूर्येऽथवा शनी राही । . वैधव्यं क्षितितनये सप्तमगे कन्यका म्रियते ॥१॥” इति सारङ्गः । तथा-- " सुक्क १ गारय २ मंदाण ३ सत्तमे ससहरे गहिअदिक्खो । पीडिजए अवस्सं सत्थ १ कुसीलत्त २ वाहीहिं ॥ १ ॥"
इति लग्नशुद्धौ । तथा--- "शुक्रार्कशनिभौमानां सप्तमेन्दौ विवाहिता । ससापत्न्या १ च विधवा २ निष्पुत्रा ३ स्वैरिणी ४ क्रमात् ॥ १॥"
इति दैवज्ञवल्लभे । ___ राहुस्तु विशेषानुक्तौ सर्वत्र शनिवत् । विशेषस्तु"द्वौ ग्रहो यदि जामित्रे करौ सौम्यौ च संस्थितौ । अब्दत्रयेण दारिद्य कन्या प्राप्नोति दारुणम् ॥१॥” इति देवज्ञवल्लभे।
अथ शुक्ररेत्यस्यापवादमाह-केन्द्रस्थितेत्यादि लग्नाचन्द्राच्चतुर्वपि केन्द्रेषु सौम्यग्रहाश्चेत् स्युस्तदा शुक्रक्रराश्रितधुनावपि लग्नेन्दू मता विति । कोऽर्थः ? क्वचिदादरणीयावपि । सारङ्गस्तु चन्द्राकेन्द्रस्थकरस्य दोषमेवमाह" लग्ना१म्बुरसप्त३व्योमस्थो भवेत्क्रूरग्रहो विधोः ।
आपीडाश्चैव सम्पीडा २ भृग्वाद्या३ वर्तिताः ४ क्रमात् ॥ १ ॥ आत्मनोरवन्धुवर्गस्यरजायायाः३कर्मणः४क्रमात् । विनाशो जायते नूनं तद्वेलाकार्यकारिणः ॥ २ ॥"
Aho! Shrutgyanam