________________
पञ्चम विमर्शः
-
-
सिंहांशे शोकसन्तापः कर्तस्थापकशिल्पिनाम् । सजायते पुनः ख्याता लोकेऽर्चा सर्वदेव हि५ ॥ ३ ॥ भोगः सदैव कन्यांशे देवदेवस्य जायते । धनधान्ययुतः कर्ता मोदते सुचिरं भुवि६ ॥ ४ ॥ उच्चाटनं भवेत्कर्तुबन्धश्चैव सदा भवेत् । स्थापकस्य भवेन्मृत्युस्तुलांशे वत्सरद्वये७ ॥ ५ ॥ वृश्चिके च महाकोपं राजपीडासमुद्भवम् । अग्निदाहं महाघोरं दिनत्रये विनिर्दिशेत्८ ॥ ६ ॥ धन्वांशे धनवृद्धिः स्यात् सद्भोगं च सदा सुरैः । प्रतिष्ठापककतारी नन्दतः सुचिरं भुवि९ ॥ ७ ॥ मकरांशे भवेन्मृत्युः कर्तृस्थापकशिल्पिनाम् । वज्राच्छनाद्वा विनाशस्त्रिभिरब्दैन संशयः१० ॥ ८ ॥ घटांशे भिद्यते देवो जलपातेन वत्सरात् ।। जलोदरेण कर्ता च त्रिभिरब्दौर्वनश्यति११ ॥ ९ ॥ मीनांशे त्वच॑ते देवो वासवाद्यैः सुरासुरैः ।। मनुष्यैश्च सदा पूज्यो विना कारापकेन तु१२ ॥ १०॥"
रत्नमालायां तु भौमवजेसर्वग्रहाणां षड्वर्गाः प्रतिष्ठायामनुज्ञाता: अथ दीक्षायां लग्नांशानाहव्रताय राशयो द्वयङ्गाः स्थिराश्चापि वृष विना। मकरश्च प्रशस्याः स्युलग्नांशादिषु नेतरे ॥ २१ ॥
व्याख्या-प्रशस्या इति, एवं मिथुन, सिंह२ कम्या३ वृश्चिक धनु ५र्मकर६ कुम्भ७ मीनाः। एतेऽष्टौ शस्याः । इतर इति, मेष, वृषर कर्क। तुला४ एते चत्वारो लमेषु नवांशेष्वादिशब्दाद् द्वादशांशेष्वपि च हेयाः । उक्तब नारचन्द्रे" भृगोरुदय१ वारांश३ भवने४ क्षण५ पञ्चके।
चन्द्रांशोर दय२ वारे च३ दर्शने च४ न दीक्षयेत् ॥ १ ॥" ___ अत्र भृगोरुदयेति शुक्रस्योदयस्थत्वं लग्नस्थस्वमित्यर्थः ।। तथा शुक्रवार: २। लग्ने शुक्रनवांशकः ३ । शुक्रभवनयोवृषतुलयोः ४ । यदि सकलदृष्टया शुको मूर्ति सप्तमगृहं वा पश्यतीति ५ पत्रके । तथा चन्द्रांशे । चन्द्रस्योदयस्थत्वे कोऽर्थः ? लमस्थत्वेर । तथा चन्द्रवारे३ । चन्द्रदर्शने च । दीक्षालनं न देयमिति षड्वर्गशुद्धिः । तथा" जीवमन्दबुधार्काणां षड्वों वारदर्शने । शुभावहानि दीक्षायां न शेषाणां कदाचन ॥ १॥"
Aho! Shrutgyanam