________________
२१४
आरम्भ-सिद्धिः
-
ग्दुमीलने जातं .-1-०-६ । अत्रापि क्रान्तिसाम्यमतीतं, कियता कालेनेति ज्ञातुमत्रापि प्राग्वत् करणेण लब्धं घट्य:४, ४ घटीभ्यः प्राक् कान्तिसाम्यमती.. तम् । एवं किचिन्न्यूनषट्कद्वादशके एध्यस्यापि कान्तिसाम्यस्य पूर्वोक्तयुक्त्या एष्यदिनघटयाचानेयम् । ग्रहाणां तद्गतीनां च स्फुटीकरणविधिरने वक्ष्यते । इदं च स्थूलमानेन क्रान्तिसाम्यसम्भवस्थानमेव सूत्रकृतोक्तम् । अस्माभिरपि तदनुवत्तनया तदेव विवृतं । यस्तु सूक्ष्मक्षिकार्थी स्यात् , तथाहि-क्रान्तिसाम्यं कदा भवितुं प्रवृत्तं ? कियती वेलां भूत्वा कदा च समाप्तं ? क्रान्तिसाम्यशब्दस्य च कोऽन्वर्थः कथं च षट्कद्वादशकोत्पत्तावपि क्रान्तिसाम्यं न स्यात् ? कथं च पटकद्वादशकानुत्पत्तावपि क्रान्तिसाम्यं स्यादिति ? कथं च क्रान्तिसाम्यं सदापि दोषकारि न स्यात् ? इत्यादि, तेन करणकुतूहलभास्करसिद्धान्ताद्यन्वेष्यम् । ननु यदुक्तं भवद्भिः कान्तिसाम्यस्य स्थान प्रतिमासवर्ष परावर्तते इति, तझस्ति कापि तत्परावर्तस्थानसीमा यद्वा नास्ति ? उच्यते-अस्ति सीमा, तथाहि-- " गण्डोत्तरांर्धानुक्लादेः क्रान्तिसाम्यस्य सम्भवः ।। सार्धपञ्चसु योगेषु तत्च्यहं परिवर्जयेत् ॥ १ ॥"
अस्थार्थः-गण्डोत्तरार्धादारभ्य साधं योगपञ्चक यावत् क्रान्तिसाम्यशा। एवं शुक्लयोगस्यादेरारभ्य सार्धयोगपञ्चकावधि क्रान्तिसाम्यस्य शङ्का, तदनन्तरं तु न तच्छङ्कापीति खण्डखाद्यभाष्यादौ । एतेन-स्थानद्वयेऽपि साधं योगपञ्चकमेव क्रान्तिसाम्यस्य परावर्तनास्थानं, सार्धयोगपञ्चकं व्यतीत्य तु न कदापि यातं यास्यति वेत्यर्थः । तत्व्यहमिति, भस्यायं भावः-ब्रह्मान्त्यपादश्रुवाद्यपादरूपादुक्तस्थानतः पश्चादच्छत्क्रान्तिसाम्यं कदाचिद्गतदिने याति, अग्रतो गच्छच्च कदाचिदग्रेतनदिने यातीत्यतः क्रान्तिसाम्यसम्भवस्थानाङ्कितमेकं दिनं तत्पुरः पृष्ठे चैकैकमिति त्रिदिनी त्याज्या । अन्यथापि वा व्यहं त्याज्य । यदुतं" गत १ मेष्य २ द्वर्तमानं ३ सुख १ लक्ष्म्या २ युषां ३ क्रमात् । क्रान्तिसाम्यं सृजेद्धानि व्यहं तेनात्र वय॑ताम् ॥ १॥"
केचित्क्रान्तिसाम्याक्रान्तमे कमेव दिनं त्याज्यमाहुः । अन्ये तहिनेऽपि क्रान्तिसाम्यभवनसमयमेव त्याज्यमाहुः । पठन्ति च
"विषप्रदिग्धेनहतस्य पत्रिणा, मृगस्य मांसं सुखदं क्षताहते। . यथा तथैव व्यतिपातयोगे, क्षणोऽत्र वज्यों न तिथिन वारः ॥१॥"
क्रान्तिसाम्यस्म वेलायाखादात्विकं यथावत्परिमाणं च करणकुतूहलायुक्तविधिना निर्वामिति सूक्तमेव प्राक् । महादोषश्चैषः । यल्लल्लः" खड्गाहतोऽग्निना दग्धो नागदष्टोऽपि जीवति ।। क्रान्तिसाम्यकृतोद्वाहो म्रियते नात्र संशयः ॥१॥" भन्नावश्योद्धरणीयाष्टादशदोषसङ्ग्रहकाव्यं यथा---
Aho! Shrutgyanam