________________
२२३
"
सायमार्केन्दुमीलने यत्किञ्चिदधिकषट्कद्वादशकरूपं राश्यंशादिजात्तमस्ति तम्माद्वाश्व त्यक्त्वा शेषस्य विकलाः कृत्वा तस्याङ्कस्य विकलारूपेण गत्यङ्केन भागो देयः, बलब्ध तद्दिनं, शेषं षष्टया सगुण्य पुनस्तेनैव भागे यल्लब्धं ता घञ्यः, तथैव पुनर्भागे लभ्यन्ते तानि फ्लानि । इमान्यतीतानि इयद्दिनघटीपलेभ्यः प्राक् क्रान्ति साम्यमतीतमित्यर्थः । यदि च षट्कं द्वादशकं वा किञ्चिदूनं तदा तत्सर्व षट्कद्वादशकामध्यात् पातयित्वा शेषस्य विकलाः कार्याः, तस्याङ्कस्य प्राग्वद् गतिविकलाङ्केन भागे यल्लब्धं तद्दिनं, पुनः प्राग्वद् गुणने भजने च लब्धं घटीपलानि, इतानि एष्याणि इयद्भिर्दिनघटीपलैर्गतः क्रान्तिसाभ्यं भविष्यतीत्यर्थः । यदि च प्रथमवारभजने भागो न प्राप्नोति तदा दिनस्थाने शून्यं क्रान्ति साम्यादर्वाग्दिनं गतमेष्यं वा नास्ति, किन्तु घटीपलाम्येव कियन्ति सन्ति । यदि च द्वितीयवारभजनेsपि भागो नाप्यते, तदा घटीस्थानेऽपि शून्यं, कोऽर्थः ? क्रान्तिसाम्यादर्वाक् घट्योsपि गता एस्या वा न सन्ति किं तु पलान्येव कियन्ति सन्तीत्यर्थः ॥ तत्र षट्कोदाहरणं यथा - संवत् १५१२ वर्षे वैशाख शुक्कदशम्यां १० गुरौ मघायां प्रातर्घटी १ पलानि४५ समये ध्रुवस्याद्यपादे गते सति क्रान्तिसाम्यं विचार्यते । तथाहि - तदानीं राइयंशकला विकलारूपः स्फुटोऽर्कः ०-१८-५०-२६, तद्वर्षे चायनांशाः १५ कला ३४ युताः सन्ति, तद्योजने सायनोऽर्कः १-४२४-२६ । रविगतिः स्फुटा कलाः ५७ विकलाः ५८ । तदा च स्फुटेन्दुः ४११-२-३० । अयनांशकला : १५ ( विकलाः ) ३४, योजने सायनेन्दुः ४ - २६-३६-३० । चन्द्रगतिः स्फुटा कलाः ७५० । सायनार्केन्दुमीलने जातं ६-१-०-५६ । अत्र क्रान्ति साम्यमतीतं, कियता कालेनेति ज्ञातुमंशा (शः ) वारद्वयं ष्टया सगुण्य विकलारूपः कृतः, ५६ विकलाक्षेपे (च) जातं ३६५६ । सूर्येन्दुगती अपि मीलयित्वा षष्टया ६० गुणने विकलाः कृताः, ५८ (विकला) क्षेपे जातं ४८४७८ । अनेन प्राक्तनाट्रस्य ३६५६ भजने भागो न लभ्यत इत्यतो दिनस्थाने शून्यं । ततः सोऽङ्कः ३६५६ षष्ट्या गुणने जातं २१९३६०, पश्चात्ते. नाङ्केन ४८४७८ भागे लब्धं घटी ४ । शेषं षष्टया सगुण्य पुनस्तेनैव भागे लब्धं ३१ फ्लानि, एतैर्घटी४ पलैः ३१ कान्तिसाम्यं प्रागतीतम् ॥
greestareरणं यथा - संवत् १५१३ वर्षे लौकिकवैशाखकृष्णाष्टम्यां भौमे धनिष्ठायां घ०१८ ५० ९४ समये ब्रह्मयोगस्यान्त्यपादे शेषे सति क्रान्तिसाम्यं विचार्यते । तथाहि तदानीं राइयादिरूपः स्फुटोऽर्कः १-०-४१-१३। अयनांश (१५-३४) क्षेपे सायनोऽर्क : १-१६-१५-१३ । रविगतिः स्फुटा क० ५७ वि० ३० । तदा च स्फुटेन्दुः ९-२९-१०-५३ सायने - ( १५-३४) न्दुस्तु १०- १४-४४-५३ | चन्द्रगतिः स्फुटा क० ८४२ वि० ६ । सायनाके
Aho ! Shrutgyanam