________________
२१२
आरम्भ-सिद्धिः
अश्लेषां मकरस्थेऽर्के यदि याति विधंतुदः ।। ज्येष्ठमासोत्तरार्द्ध तज्ज्येष्ठायां दृश्यते शिखी ॥ १० ॥ कुम्भस्थेऽर्के मघा धिष्ण्यं यदि याति विधंतदः । आषाढमासोत्तरार्धे श्रुतौ केतूदयस्तदा ॥ ११ ॥ मीनेऽऽपरफल्गुन्यां यदि याति विधुतुदः । श्रावणस्योत्तरार्धे तद्वारुणे दृश्यते शिखी ॥ १२ ॥"
इदं त्रिविक्रमशतकटीकायां । उल्कापातपरिवेषहतमपि भ षण्मासाँ स्त्याज्यमित्येके ॥
वेधेनकार्गलोत्पातपातलत्ताभिधैरपि । दोषैरुपग्रहाद्यैश्च नक्षत्रं दुष्टमुत्सृजेत् ॥ १७ ॥ व्याख्या-वेधेन सप्तरेखपञ्चरेखचक्राभ्यां वर्णितेन ! उत्पाता भौमाद्यास्ते यस्मिन् दिनभेऽभूवस्तगमुत्पातदूषितं । अपिशब्दाद्ग्रहयुद्धाद्यैरपि एतद्दोषदुष्टान्यपि च भानि तदोषापगमादनु चन्द्रभुक्त्या शुद्धानि स्युरिति रत्नभाष्ये ॥ वेलाशुद्धिमाहअर्केन्द्वोर्मुक्तांशकराशियुतौ क्रान्तिसाम्यनामायम् । चक्रदले व्यतिपातः पातश्चक्रे च वैधृतस्त्याज्यः॥१८॥
व्याख्या-स्फुटार्केन्द्वोः सायनयोर्भुक्तांशराशिमिलने राश्यङ्कस्थाने षटकं द्वादशकं वा यदि स्यात्तदा क्रान्ति साम्यसम्भवः, तद्वेला च त्याज्या, स च क्रान्तिसाग्यनामा दोषो यदि चक्रदले चक्रार्धे षडरूपे स्यात्तदाऽस्य व्यतिपात इत्याह्वा । यदि च चक्रे द्वादशरूपे स्यात्तदाऽस्य 'पात इति' 'वैश्त इति' चाहद्वयं । भथानेदं तत्त्वं-कान्तिसाम्यवेला तावन्नियता वक्तुं न पार्यते, प्रतिवर्ष तत्परावतभवनात् । तदुक्तं विवाह वृन्दावने"त्रिभागशेष ध्रुवनानि चैन्द्रत्र्यंशे गते सम्प्रति सम्भवोऽस्य" । इति तदनु च कैश्चिदूचे-" पूर्वार्धे पुनरैन्द्रस्य पश्चिमाधै भ्रवस्य च " इति । साम्प्रतं तु-" ब्रह्मणश्चरणे शेषे ध्रुवस्य चरणे गते ।
तत्सम्भव इत्याहुाः० ॥ " कोऽत्र प्रत्यय इति चेत्, उच्यते-एतद्वेलासत्कावन्दू राश्यंशादिरूपतया स्फुटीकृत्य तद्वर्षीयायनांशांस्तयोर्मध्ये क्षिप्त्वा पश्चात्तयोमियो मीलने चेद्राशीनां षट्कं द्वादशकं वा स्यात्तदा क्रान्तिसाम्यसम्भवोऽस्तीति ज्ञेयम् । तत्रापि विशेषःयदि निरुद्धमेव षटकं द्वादशकं वा स्यात्तदा तदानीयं क्रान्तिसाम्यम् । यदि तु किञ्चिदधिकं तत्तदा क्रान्तिसाम्यमतीतं । यदि तु किञ्चिन्न्यूनं तदाऽतः परं भावि । कियता कालेन प्राग भूतं भविष्यति वेति ज्ञातुमिच्छा चेत्स्यात्तदाsन्द्वोर्गती कलाविकलात्मिके स्पष्टीकृत्य मिथः सम्मील्य विकलारूपे कार्ये । तदनु
Aho! Shrutgyanam