________________
पञ्चम विमर्श:
२११
अत्र सूर्येन्द्वोर्भोगादिति सूर्येण ताप्यते पश्चाच्चन्द्रेण निव्र्वाप्यते इत्यर्थः । उपरागोन्द्वोर्ग्रहणं (तेन) पराहतं दूषितं ग्रहण भमित्यर्थः, तत् षण्मा साँस्त्याज्यं । यावचा भुङ्क्ते तावन्याज्यमित्यन्ये । विशेषस्तु -
66
पक्षान्तरेण ग्रहणद्वयं स्याद्यदा तदाद्यग्रहणोपगं भम् ।
39
पक्षाद्विशुद्धं भवति द्वितीयग्रहोपगं शुध्यति मासषदकात् ॥ १ ॥ सप्तर्षयः । भे केतोरुदयः स्यात्तत्रैव षण्मासान् केतुरिति तदपि षण्मासस्त्याज्यं । यस्मिन् दिनभे ताराग्रहयो भौमादिपञ्चकान्यतरयोर्मिथो मेदनं स्यात्तदपि मं षण्मासाहत्याज्यं । उक्तञ्च विवाहवृन्दावने - " यस्मिन् धिष्ण्ये वीक्षितौ राहुकेतू, भेदस्ताराखेटयोर्यत्र च स्यात् । आषण्मासांस्तत्र लग्नेन्दुभाजि,
भ्राजिष्णु स्यानो शुभं कर्म किञ्चित् ॥ १ ॥
दिनभेऽर्केन्द्वोर्ग्रहणं स्यात्तत्र राहुर्वीक्षित इत्युच्यते, यत्र भे केतोरुदयः स्यात्तत्र केतुर्वीक्षितः कथ्यते । ननु कथं केतूयभं ज्ञायते इति चेदुच्यते" मेषेऽर्के सति रेवत्यां यदि याति विधुन्तुदः । भाद्रमासोत्तरार्धे स्यात् पुष्ये केतूदयस्तदा ॥ १ ॥ सूर्ये वृपस्थितेऽश्विन्यां यदि याति विधुन्तुदः । आश्विनस्योत्तरार्धे तद्रोहिण्यां केतुरीक्ष्यते ॥ २ ॥ भरणीमिथुनस्थेऽर्के यदि याति विधुंतुदः । कार्तिकस्योत्तरार्धे तदार्द्रायां केतुदर्शनम् ॥ ३ ॥ कर्कस्थेऽर्के कृत्तिकायां यदि याति विधुंतुदः । मार्गशीर्षापरार्धे तत्केतूदयः पुनर्वसौ ॥ ४ ॥ सिंहेsh सति रोहिण्यां यदि याति विधुन्तुदः । पौषमासापराधे तदश्लेषायां शिखीक्ष्यते ॥ ५ ॥ कन्यास्थेऽर्के मृगशीर्ष यदि याति विधुंतुदः । माघमासोत्तराधे तच्चित्रायां दृश्यते शिखीं ॥ ६ ॥ तुलार्के सति आर्द्रायां यदि याति विधुन्तुदः । फाल्गुनस्योत्तरार्धे स्यान्भूले केतूदयस्तदा ॥ ७ ॥ वृश्चिके के पुनर्वस्वोर्यदि याति विधुंतुदः । चैत्रमासोत्तरार्धे स्यात् स्वाती केतूदयस्तदा ॥ ८ ॥ धनुः स्थिते रवौ पुष्यं यदि याति विधुंतुदः । वैशाखस्योत्तरार्धे स्यान्मूले केतूदयस्तदा ॥ ९ ॥
Aho ! Shrutgyanam
ܕܕ