________________
आरम्भ-सिद्धिः
"विड्डरमवहारिअ " अत्रापद्वारितं वक्रिप्रहाक्रान्तमित्यर्थः । प्रहैर्भिन्नमिति भौमायाः पञ्च ताराग्रहा यस्य कृत्तिकारोहिण्यादेर्मध्येन भित्त्वा ययुस्तद्ग्रहभिनं । उक्त लग्नशुद्धौ - ''मज्झेण गहो जस्स उ गच्छह तं होइ गहभिन्नं । 33 नारचन्द्र टिप्पनके त्वेवं-यत्र ग्रहाणां वामदक्षिणा दृक् पतेत्तद्ग्रहभिनं दृग्ज्ञानायात्र सप्तरेखचक्रवत्कृत्तिकादिसप्तसप्तभानां चतुर्दिक्षु स्थापना यथा (पृ. २०९ ) - ततश्च -- " यस्मिन् धिष्ण्ये स्थितः खेटस्ततो वेधत्रयं भवेत् । ग्रहदृष्टिप्रभावेण वामदक्षिणसम्मुखम् ॥ १ ॥ वगे दक्षिणा दृष्टिर्वामदृष्टिश्च शीघ्रगे । भौमादिपञ्चकस्य स्यान्मध्यदृष्टिश्च मध्यमे ॥ २ ॥ राहुकेतू सदा वक्रौ, सदा शीघ्रौ विधूष्णगू | क्रूरा वक्रा महाक्रूराः सौम्या वक्रा महाशुभाः ॥ ३ ॥ "वेधद्वयं भजति धिष्ण्यमिभारिदंष्ट्रा संस्थानदिग्द्वयगतोडुगतग्रहाभ्याम् । एकं तथाऽभिमुखसंस्थितमध्य नासापर्य्यन्तभागधृतधिष्ण्यगतग्रहेण ||४|| " इति नरपतिजयचर्यायां ।
२१०
उदाहरणं यथा—मृगशीर्षे कार्यचिकीर्षा, चित्रायां च कश्चिद्धौमादिसप्तकान्यतमो वक्री ग्रहः स्यात्तदा तस्य वक्रगतित्वेन दक्षिणा हम्मृगशीर्षे पतिता । रेवत्यां चार्कादिसप्तकान्यतमः कश्चिदतिचारी ग्रहः स्यात्तदा तस्य शीघ्रगतित्वेन वामा दृगित्युभयतो ग्रहडपातात्तदा मृगशीर्षं ग्रहभिन्नं स्यात् । उत्तराषाढायां च भौमादिपञ्चानां मध्ये कश्चिन्मध्यगतिर्ग्रहः स्यात्तदा सम्मुखशा तृतीयस्तद्वेधोऽपि । एवमन्यत्रापि भाव्यं । परमेष तृतीयो वेधो वेधेनैकार्गलेत्यस्मिन् लोकेऽधिकरिष्यते, शेषाभ्यां स्वत्राधिकारः ॥ अशुद्धभानां शुद्ध्युपायमाहधिष्ण्यं कार्याय पर्याप्तं चन्द्रभोगाद्रहाहतम् । शुद्धं षड्भिर्भवेन्मासैरुपरागपराहतम् ॥ १६ ॥
व्याख्या - पर्याप्तमिति योग्यं भवेदिति सण्टङ्कः । महाहवमिति क्रूरप्रहेण विमुक्काक्रान्तभोग्यत्वेन प्रहैरुदयास्त करणेन वक्रिग्रहाक्रान्तत्वादिना वाटूषितं । चन्द्रभोगादिति ग्रहकृतदोषापगमादनु यदि चन्द्रेण भुक्तं स्यात्तदाऽऽदरणीयमित्यर्थः । यदाह वराहः
" दोषैर्मुक्तं यदा विष्ण्यं पश्चाचन्द्रेण संयुतम् । ततः पश्चाद्विशुद्धं स्यान्नान्यथा शुभदं भवेत् १ ॥ "" " तत्सूर्येन्वोर्भेौगात्कर्मण्यत्वं प्रयाति भूयोऽपि । धियं कर्मसु शुद्धं तापनिषेकात्सुवर्णमिव ॥ १ ॥ १
"
Aho ! Shrutgyanam
-
लल्लुस्वाह