________________
पञ्चमो विमर्शः
२०३
इति व्यवहारसारे । एकपक्षेऽपि वाऽनया रीत्या जन्ममासोऽपि न बिरुद्धः । तथाहि शुक्लपञ्चम्यां कार्यचिकीर्षाऽस्ति शुक्लाष्टमी च जन्मतिथिरित्थं न दोषः, यतस्तस्य पुंसः किल शुक्लाष्टमीत एवं जन्ममासप्रारम्भः, शुक्ल पञ्चमी तश्वतोऽपरमासस्थैवेति, विपर्यये तु जन्ममासदोषो लागत्येवेति ज्योतिर्ज्ञाः । व्यवहारप्रकाशे तूक्तं - " बलिनि शुभग्रहे केन्द्रस्थे सति जन्मममपि न दुष्टं । तथाहि
""
66
नो जन्मभं च कार्य बलिनि शुभं केन्द्रगे सौम्ये......' दिनशुद्धिं पृथगाह
सादिमं ग्रहणस्याहः सप्ताहं च तदग्रतः, त्यजेत्रिंशांशमेकैकं प्राक् पश्चाच्चापि सङ्क्रमात् ॥ ७ ॥
व्याख्या - सादिममिति चतुर्दशीसहितं । केचित्रयोदशीमपि वर्जयन्ति । पठन्ति च- " त्रयोदशीतो दशाहं सूर्येन्दुग्रहणे त्यजेत्...' सप्ताहं चेति सामान्योक्तेऽप्ययं विशेषो दृश्यः
" सर्वग्रस्तेषु सप्ताहं पञ्चाहं स्याद्दग्रहे । त्रिद्वयेकागुलग्रासे दिनत्रयं विवर्जयेत् ॥ १ ॥ " इत्यङ्गिराः । विशेषस्तु -
"राहो दृष्टे शुभं कर्म वर्जयेद्दिवसाष्टकम् | त्यक्त्वा वेतालसंसिद्धिं पापदंभमयं तथा ॥ १ ॥” इति दैवज्ञवल्लभे । त्रिशांशमिति सङ्क्रान्तिमासस्य त्रिंशत्तमं भागं सामान्येन दिनमित्यर्थः । सङ्क्रान्तिदिनात् पुरः पृष्ठे चैकैकं दिनं सङ्क्रान्तिदिनं चेति दिनत्रयमित्यर्थः । हरिभद्रसूरिभिरप्युक्तं - " संकंतीय पुव्वं संकेतिदिणं तयग्गिमं च दिणं, वजिज्जंति.... ." नारचन्द्रेऽपि -
79
97
I
"
66
त्यज सङ्क्रमवासरं पुनः सह पूर्वेण च पश्चिमेन च
.. इति ॥
एकान्तिकार्ये तु दिनत्रयस्य त्यक्तुमशक्यत्वे प्राक् पश्चात् षोडशावश्यं त्याज्या नाड्योऽर्कसङ्क्रमात् इत्यपि बहूनां मतम् ॥
।
भद्रार्धयामगण्डान्तकुलिकोत्पातदूषितम् दिनं तपसि कां च स्थापने च कुजं त्यजेत् ॥ ८ ॥ व्याख्या—भद्रेत्यादि भद्राद्यैः किलासाध्यदोषैर्लनमपि हन्यते, यदुक्तं— गण्डान्तेषु सवैधृतावुभयतः सङ्क्रान्तियामद्वये, यामार्धव्यतिपातवि प्रिकुलिकैर्भग्नं विलग्नं जगुः । इति विवाहवृन्दावने । उत्पाता भौमादिभेदाः प्राग्वर्णिताः । सारङ्गस्तुस्पातेषु पञ्चाहं त्याज्यमाह, तथाहि ८
"
Aho ! Shrutgyanam