________________
आरम्भ-सिद्धिः
समशुद्धिरपि श्रेष्ठा शुद्धिपतेर्यदि भवेच्छुभा रेखा । शुद्धोशस्य न रेखा यदा तदा षड्विधादिवीर्यवतः ॥ ६ ॥ मित्रग्रहस्य रेखा समरेखां शुद्धिमुत्तमां कुरुते ।
तामन्तरेण मुनिभिने हधिकाऽपि प्रशस्यते रेखा ॥ ७ ॥ समशुद्धयामष्टकतः शुद्धिपते रेखिकामृते वेधात् । शुभदे ग्रहे सति शुभा शुद्धिः स्यात् प्रोच्यते विबुधैः ॥ ८ ॥ तथा-- नवमद्विपञ्चमगतः समरेखोऽप्यधिकशुभफलः सूर्यः । सङ्क्रमकालेन्दुबलात् समोऽपि सर्वत्र शुभदोऽर्कः ॥ ९ ॥ तथा
दशमादूर्व केवललग्नबलेन स्त्रिया विवाहः स्यात् ।। शुद्धि वालोक्या रवीज्ययोः पूजयोद्वाहः ॥ १० ॥"
अत्र दशमादिति वर्षादिति शेषः । इतीदं सर्च व्यवहारप्रकाशे। "जन्मद्विपञ्चनवमानगः खरांशुः, पूजां च वाञ्छति न चाष्टचतुर्व्ययस्थः । जीवस्त्रिजन्मदशमारिगतस्तु पूजामिच्छेत्कदाचिदपि नाष्टचतुर्व्ययस्थः॥१॥"
_इति तु व्यवहारसारे ।
अन न चेति यत्रस्थः पूजां नेच्छति तत्रात्यन्तमशुभत्वात् पूजयाऽप्यनुकूलो न स्यादिति भावः । गर्गस्त्वाह-" गोचरविरुद्धे जीवे वैधव्यमेव, पूजा त्वप्रमाणं " || अथोक्तशेषां मास शुद्धिं दिननक्षत्रशुद्धी चैकश्लोकेनाहज्येष्ठापत्यस्य न ज्येष्ठे मासि स्यात्पाणिपीडनम् । न पुनस्त्रयमप्येतन्मासाहर्भेषु जन्मनः ॥ ६ ॥
व्याख्या-ज्येष्ठापत्यस्य पुत्रस्य पुन्या वा पाणिपीडनमिति उपलक्षणमिदं शेषकार्याणां । यदुक्तं हर्षप्रकाशे-“ सुहकजे वजे सम्वहिं पि जिस्स जिटुंति " । सप्तर्षयस्त्वाहुः" ज्येष्ठे न ज्येष्ठयोः कार्य नृनार्योः पाणिपीडनम् । तयोरेकतमे (रे) ज्येष्ठे ज्येष्ठेऽपि न विरुध्यते ॥ १॥".
त्रयमिति दीक्षाप्रतिष्टोद्वाहरूपं । मासाहभैब्विति जन्मसम्बन्धिनि मासे दिने मे चोद्वाहादि त्याज्यं । इह चोद्वाहे वरकन्ययो,र्दीक्षायां शिष्यस्य, प्रतिठायां च शिष्यस्थापकयोरिति स्वयमूहं । केऽप्याहुः-पक्षो यद्यपरस्तदा जन्म. मासोऽपि न विरुद्धः । जन्मतिथिरपि दिनरात्रिभागपरावर्तेनाविरुद्धा। जन्मभमपि राशिपार्थक्ये भव्यमेव । उक्तञ्च - "जन्ममासि विपरीतपक्षयोयत्यये दिननिशोर्जनुस्तिथौ । जन्मभेऽपि किल राशिभेदतः, पाणिपीडनविधिर्न दुष्यति ॥१॥"
Aho! Shrutgyanam