________________
१९२
आरम्भ-सिद्धिः
..........-
---
-
-
.
व्याख्या-चरादन्यत्रेति स्थिरे द्विस्वभावे वा लग्ने, चन्द्रेऽपि च स्थिरद्विस्वभावराशिस्थे ॥ गृहप्रवेश सुविनीतवेषः, सौम्येऽयने वासरपूर्वभागे। कुर्याद्विधायालयदेवतार्चा, कल्याणधीभूतलिक्रियांच८५ व्याख्या-सुविनीतोऽनत्युद्भटः पवित्रोचितश्च । सौम्ये इति उत्तरायणे । यदुंक्त
"सौम्येऽयने कर्म शुभं विधेयं, यद्गर्हितं तत्खलु दक्षिणे च ।" __ अन शुभमिति, नवरं--- "मालादिसङ्ख्यानियतं सीमन्तोन्नयनादिकम् । . याम्यायनादौ तत्सर्व क्रियमाणं न दुष्यति ॥ १." इतित्रिविक्रमः । ____ अत्रादिशब्दादधिकमासक्षयमासावपि तत्र न दुष्टावित्यर्थः। पूर्व भागे इति चटव इति भावः । आलयेति वास्तुशास्त्रोपदिष्टं वास्तुपूजनं भूतबलिं च दिक्षु विदिक्षु विधाय । कल्याणधीरिति तदानीं सद्बुद्धिरेवानेयेति भावः । वाराद्याह
प्रविशेद्वेश्म वारेषु हित्वाऽर्कक्षितिनन्दनौ । . भैश्च पुष्यध्रुवस्वातिधनिष्ठामृदुवारुणैः ॥ ८६॥ विधाय वामतः सूर्य पूर्णकुम्भपुरस्सरः । गृहं यद्दिङ्मुखं तदिग्द्वारधिष्ण्ये विशेषतः ८७॥ युग्मम्।
व्याख्या-प्रविशेदिति चन्द्रे गोचराष्टकवर्गविधिनाऽनुकूलेऽरिक्ततिथौ विष्कम्भादिकुयोगाभावे चेति स्वयमूहां। यदुक्तं -"तारेन्द्वोबलकाले तिथावरिक्त. ऽह्नि शुभदस्येति " व्यवहारप्रकाशे । हित्वेति रविकुजयो रोग-रक्तप्रकोपकारित्वात् । भैश्चति, यदुक्तं"विशाखासु राशी सुतो दारुणेषु, प्रणाशं प्रयात्युग्रमेषु क्षितीशः । गृहं दह्यते वह्निना वह्निधिष्ण्ये, चरैः क्षिप्रधिष्ण्यैश्च भूयोऽपि यात्रा॥"
इति दैवज्ञवल्लभे । पूर्णकुम्भेति जलकलशानग्रतः कृत्वेत्यर्थः । गृहं यदिग्मुखमिति, अयं भावः-पूर्वाभिमुखे गृहे पूर्वद्वारकेपु कृत्तिकादिसप्तभेषु प्रवेष्टुमधिकारः, तेन पूर्वोक्तगुणयुतमपि प्रवेशभं यदि गृहाभिमुखदिग्द्वारकं स्यात्तदाऽतीव शुभं । विशेषस्तु" सर्वग्रहैविमुक्तं प्रवेशमं शस्यते प्रयत्नेन । कैश्चित्सौम्यसमेतं शुभप्रदं कीर्तितं मुनिभिः ॥ १ ॥” इति लुल्लुः । तथा नव्यगृहप्रवेशे शुक्रः सम्मुखस्त्याज्य: । यत् त्रिविक्रमः" त्यजेत् कुतारा प्रस्थाने शुक्रज्ञौ गहवेशके ।
यात्रासु च नवोढरीवर्ज सम्मुखदक्षिणी ॥ १ ॥" अत्र गृहवेशके इति नव्यगृहप्रवेशे ॥ लग्नबलमाह, पवित्रचित्तश्चेति साधीयान्.
Aho! Shrutgyanam