________________
चतुर्थो विमर्श केन्द्र त्रिकोणगैः सौम्यैः, क्रूरैः शत्रत्रिलाभगैः। शुभाय भवनारम्भोऽष्टमः क्रूरस्तु मृत्यवे ।। ८३ ॥
___ व्याख्या--मत्यवे इति गृहस्वामिन इति शेषः । विशेषस्तु"गुरुर्लग्ने जले शुक्रः स्मरे ज्ञः सहजे कुजः । रिपो भानुर्यदा वर्षशतायुः स्याद् गृहं तदा ॥ १ ॥ सितो लग्ने गुरुः केन्द्रे खे बुधो रविरायगः । निवेशे यस्य तस्यायुर्वेश्मनः शरदां शतम् ॥ २ ॥ त्रिशत्रुसुतलग्नस्थैः सूर्यारेज्यसितैर्भवेत् । प्रारम्भः सद्मनो यस्य तस्यायुर्द्व समाशते ॥ ३ ॥ व्योम्नि चन्द्रः सुखे जीवो लाभे भौमशनैश्चरौ । यस्य धास्नः समाशीति स्थितिस्तस्य श्रिया युता ॥ ४ ॥ स्वोच्चस्थे लग्नगे शुक्रे १ हिबुकस्थेऽथवा गुरौ २ । स्वोच्चे मन्देऽथवा लाभे ३ धाम्नः सश्रीः स्थितिश्चिरम् ॥५॥"
चिरमिति अमितायुरित्यर्थः । येऽमी गृहारम्भलग्ने विशेषा उच्यमाना: सन्ति ते जिनालयादिप्रारम्भलग्नेष्वपि योज्याः । तथा" स्वक्ष चन्द्रे विलग्नस्थ जीवे कण्टकवतिनि ।। भवेल्लक्ष्मीयुते धाम्नि भूरिकालमवस्थितिः ॥ ६ ॥ स्वमित्रोच्चग्रहांशस्थैस्तदंश्याश्चिरमासते। खगैरन्यगतैरन्ये नीचगैश्चापि निर्धनाः ॥ ७ ॥ अनस्तगैः सितेज्येन्दुजन्मराशिविलग्नपैः । स्वोच्चस्वक्षेत्रभागस्थैर्भवेच्छीसौख्यदं गृहम् ॥ ८ ॥ गृहिणीन्दी गृहस्थोऽर्के गुरौ सौख्यं सिते धनम् । विबले नाशमायाति नीचगेऽस्तंगतेऽपि च ॥ ९ ॥ " इति दैवज्ञवल्लभे । तथा-- " गहेषु यो विधिः कार्यो निवेशनप्रवेशयोः ।
स एव विदुषा कार्यों देवताऽऽयतनेष्वपि ॥ १॥" इति व्यवहारप्रकाशे । लग्ने दोषमाहवर्णेशो दुर्बलः कुर्यादावर्षादन्यहस्तगम् । एकोऽपि द्यून ७ कर्म १० स्थः परांशे स्याद्यदि ग्रहः ॥८॥
व्याख्या-कुर्यादिति गृहमिति शेषः । परांशे इति परकीयनवांश उत्तरार्धोक्तयोगे केवलजावनेकान्तः, पूर्वाधोक्तयोगमिलने त्वेकान्त एव, द्वाभ्यां परनवांशगाभ्यां तु सकालेऽपि गृहनाशः स्यात् ॥ यात्रानिवृत्तनृपादेः सामान्येन नव्यगृहे वा प्रवेशविधिमाह
Aho! Shrutgyanam