________________
चतुर्थी विमर्श:
66
वृषे सेन्दी लग्ने सवितृगुरुतीक्ष्णांशुतनयैः,
सुह ४ जाया ४ ख १० स्थैर्भवति नियमान्मानवपतिः । मृगे मन्दे लग्ने सहजरिपुधर्म्मव्यय गतैः, शशाङ्काद्यैः ख्यातः पृथुगुणयशाः पुंगणपतिः ॥ ५ ॥
""
वृषे लग्ने चन्द्रः सिंहेऽर्कः वृश्चिके जीवः कुम्भे शनिः इत्येको योगः १ | 'मृगे मन्दे' इति मकरे लग्ने शनिः मीने चन्द्रः मिथुने भौमः कन्यायां बुधः धनुषि जीवः शुक्राक यथेच्छं इति द्वितीयः २ । पुनस्त्रीनाह - " हये सेन्दौ जीवे मृगमुखगते भूमितनये, स्वस्थौ लग्ने भृगुजशशिजावत्र नृपती । सुतस्थौ वक्रार्की गुरुशशिसिताश्चापि हिबुके,
""
बुधे कन्या लग्ने भवति हि नृपोऽन्योऽपि गुणवान् ॥ ६ ॥ हये इति धन्यश्वपश्चार्धक इत्युक्तेर्धनुषि जीवेन्दू मकरे भौम एवं सति मी लग्ने शुक्रे एको योगः १, कन्यालग्ने सबुधे द्वितीय: २, सुतस्थाविति कन्या लग्ने बुधः मकरे भौमशनी धनुषि चन्द्रजीवशुक्रा इति पुनस्त्रीनाह -
तृतीयः ३ ।
" झपे सेन्दी लग्ने घटमृगमृगेन्द्रेषु सहितै
मार्केर्योऽभूत्स खलु मनुजः शास्ति वसुधाम् अजे सारे मूर्ती शशिगृहगते चामरगुरौ,
,"
सुरेज्ये वा लग्ने धरणिपतिरन्योऽपि गुणवान् ॥ ७ ॥
मीने लग्ने चन्द्रः कुम्भे शनिः मकरे भौमः सिंहेऽर्क: इत्येको योगः १ । अजे सारे इति मेषे लग्ने आरो भौमः कर्के जीव इति द्वितीयः २ । यद्वा कर्के लग्ने जीवः मेषे भौमः इति तृतीयः ३ ।
" कर्कणि लग्ने तत्स्थे जीवे चन्द्रसितज्ञैरायप्राप्तैः । hardse जातं विद्याद्विक्रमयुक्तं पृथिवीनाथम् ॥ ८ ॥ "
कर्के लग्ने जीवः वृषे चन्द्रशुक्रबुधाः मेषेऽर्कः एवं योगः १ । " मृगमुखेऽर्कतनये तनुसंस्थे, छगकुलीरहरयोऽधिपयुक्ताः । मिथुन तौलिसहितो बुधशुक्रौ, यदि ततः पृथुयशाः पृथिवीशः ॥९॥" मकरे लग्ने शनिः मेषे भौमः कर्के चन्द्रः सिंहेऽर्क: मिथुने बुधः तुले शुक्रः एवं योगः १ ।
66
स्वोच्च संस्थे बुधे लग्ने भृगौ मेषूरणाश्रिते । सजीवेऽस्ते निशानाथे राजा मन्दारयोर्मृगे ॥ १० ॥ "
१७५
Aho ! Shrutgyanam