________________
९७४
आरम्भ-सिद्धिः
रविभौम बुधशुक्रेर्द्वितीयः २, रविभौमबुधशनिभिस्तृतीयः ३, रविभौमजीवशुक्रश्वतुर्थः ४, रविभौमजीवशनिभिः पञ्चमः ५, रविभौमशुक्रशनिभिः षष्ठः ६, रविबुधजीवशुभैः सप्तमः ७, रविबुधजीवशनिभिरष्टमः ८, रविबुधशुक्रश निमिर्न - वमः ९, रविजीव शुक्रश निभिर्दशमः १०, भौमबुधजीवशुभैरेकादश: ११, भौमबुधजीवशनिभिर्द्वादशः १२, भौमबुधशुक्रशनिभिस्त्रयोदशः १३, भौमजीवशुक्रशनिभिश्चतुर्दशः १४, बुधजीव शुक्रशनिभिः पञ्चदशः १५ । अथ पञ्चानां दृष्टिरवि भौमबुधजीवशुरेकः १, रविभौमबुधजीवशनिभिर्द्वितीयः २, रविभौमबुधशुक्रशनिभिस्तृतीयः ३, रबिभौमजीव शुक्रशनिभिश्चतुर्थः ४, रविबुधजीव शुक्रशनिभिः पञ्चमः ५, भौमबुधजीव शुक्रशनिभिः षष्टः ६ । अथ षण्णां दृष्टि:- रविभौमबुधगुरुशुक्रशनिभिरित्येकः १ । सर्वेऽप्येते द्वाविंशतिः २२ । एते मेषलग्ने वर्गोत्तमगते सति स्युः, एवं द्वादशलग्नेष्वपि वर्गोत्तमगतेषु भावादृद्वाविंशतेर्द्वादशभिर्गुणने जाते द्वे शते चतुःषष्ट्यधिके २६४ । एवं चन्द्रस्याप्येकैकराशौ वर्गोत्तमनवांशस्थस्य द्वात्रिंशतेर्द्वाविंशतेर्भावाद्वे शते चतुःषष्ट्यधिके २६४ । मीलने पञ्च शतान्यष्टाविंशानि ५२८ | अथ पञ्च योगानाह-
" यमे कुम्भेऽर्केऽजे गवि शशिनि तैरेव, तनुगै युसिंहालिस्थैः शशिजगुरुवकैर्नृपतयः । यमेन्दू तुङ्गे सवितृशशिजौ षष्ठभवने, तुलाजेन्दुक्षेत्रेः ससितकुजजीवैश्च नरपौ ॥ ३ ॥ ५
"
कुम्भे शनिमेषेऽर्कः वृषे चन्द्रः, नृयुगिति मिथुनं तत्र बुधः सिंहे जीवः वृश्चिके भौमः ईदृश्यां ग्रहस्थितौ तैरेव तनुगैरित्युक्तेः कुम्भे लग्ने एको योगः १, मेषे द्वितीयः २, वृषे तृतीयः ३ । तथा यमेन्दू इति शनीन्दू स्वोदे लग्नस्थौ, ततश्च तुले शनिः, वृषे चन्द्रः षष्ठभवनं षष्ठराशिः कम्येत्यर्थः, तत्रार्कबुधौ, तुले शुक्रः, मेषे भौमः कर्के जीवः, एवं तुले लग्ने एको योगः १, वृषे द्वितीयः । सर्वेऽप्येते पञ्च । अथ त्रीनाह—
•
و
" कुजे तुङ्गेऽर्केन्द्रोर्धनुषि यमलग्ने च नृपतिः, पतिर्भूमेश्वान्यः क्षितिसुतविलग्ने सशशिनि । सचन्द्रे सौरेऽस्ते सुरपतिगुरौ चापधरगे, स्वतुङ्गस्थे भानावुदयमुपयाते क्षितिपतिः ॥ ४ ॥
"
मकरे भौमः धनुषि सूर्येन्दू यमलग्न इति यत्र तत्र राशौ शनिर्लग्नगः इत्येको योगः १ । पतिर्भूमेश्राम्य इत्यस्मिन्नेव योगे भौमे सेन्दी लग्नगेऽर्थादेवा धनुःस्थे द्वितीयो योगः २ । सचन्द्रे सौरेऽस्त इति मेषलग्नेऽर्कः धनुषि गुरुः तुले शनीन्दू एवं तृतीयः ३ । पुनर्द्वावाह-
Aho ! Shrutgyanam