________________
चतुर्थों विमर्श
१७३
मध्याद्वाभ्यामुच्चस्थाभ्यां तयोरेव चैकैकस्मिन् लग्नगे चन्द्रे कर्कस्थे द्वादश । एषां मध्यादेकस्मिनुच्चस्थे तस्मिन्नेव च लग्नगे कर्कस्थे चन्द्रे चत्वारः, एवमपि षोडश । सर्वे द्वात्रिंशत् । तथाहि-मेषेऽर्कः कर्के जीवस्तुले शनिर्मकरे भौमः शेषा यथेच्छं, ईदृश्यां गृह स्थिती मेष लग्ने एको योगः १, कर्के द्वितीयः २, तुले तृतीयः ३, मकरे चतुर्थः ४, एवं चत्वारः । अथ त्रिभिः मेषेऽर्क: कर्के जीवस्तुले शनिः शेषा यथेच्छं, एवं मेष लग्ने एकः १, कर्के द्वितीयः २, तुले तु तृतीयः ३ । सर्वे सप्त ७ । अथ मेषेऽर्क: कर्के जीव: मकरे भौमः शेषा यथेच्छं, एवं मेष लग्ने एकः १, कर्के द्वितीयः २, मकरे तृतीयः ३ । सर्वे दश १०॥ अथ मेषेऽर्कस्तुले शनिर्मकरे भौम: शेषा यथेच्छं, एवं मेष लग्ने एकः १, तुले द्वितीयः २, मकरे तृतीयः ३, एवं त्रयोदश १३ । अथ कर्के जीवस्तुले शनिर्मकरे भौमः शेषा यथेच्छं, एवं कर्के लग्ने एकः १, तुले द्वितीय: २, मकरे तृतीयः ३, एवं सर्वे षोडश १६ । एते पूर्वार्धोक्ताः । अथ द्वयाश्रितेषूच्यन्ते-कर्के चन्द्रः मेषेऽर्कः कर्के जीवः शेषा यथेच्छं । एवं मेषे लग्ने एकः १, कर्के द्वितीयः २ । अथ मेषेऽर्कः कर्के चन्द्रस्तुले शनिः एवं मेषलग्ने तृतीयः ३, तुले चतुर्थः ४। अथ मेषेऽर्कः कर्के चन्द्रो मकरे भौमः एवं मेष लग्ने पञ्चमः ५, मकरे षष्टः ६ । अथ कर्के चन्द्रजीवी तुले शनिः एवं कर्के लग्ने सप्तमः ७, तुलेऽष्टमः । अथ कर्कस्थौ जीवेन्दू मकरे भौमः । एवं कर्क लग्ने नवमः ९, मकरे दशमः १० । अथ कर्के चन्द्रस्तुले शनिर्मकरें भौमः एवं तुले लग्ने एकादशः ११, मकरे द्वादशः १२ । अथैकाश्रितेषु कर्के चन्द्रे मेषलग्नस्थेऽके एकः १, कर्के लग्ने चन्द्र जीवौ द्वितीयः २, कर्के चन्द्रे तुललग्ने शनी तृतीयः ३, कर्के चन्द्रे मकरलग्नस्थे भौमे चतुर्थः ४, एते पूर्वैः सह षोडश १६ । सर्वे द्वात्रिंशत् ३२ राजयोगाः । अथ पञ्चशतान्यष्टाविंशत्यधिकानि ५२८ राजयोगानामाह__ " वर्गोत्तमगते लग्ने चन्द्रे वा चन्द्रवर्जितैः ।
चतुराधैर्ग्रहैदृष्टे नृपा द्वाविंशतिः स्मृताः ॥ २ ॥ "
लग्ने वर्गोत्तमगते राशिसमाननामकनवांशस्थे इत्यर्थः । अयं भावःयो राशिर्लग्नेऽस्ति तस्य यो नवांशो राशिसमनामाऽस्ति स वोत्तमाख्यः, स एव च नवांशो लग्नेऽधिकृतोऽस्ति तदा लग्नं वर्गोत्तमगतमुच्यते, एवं चन्द्रेऽपि वाच्यं, तस्मिन् 'चन्द्रवर्जितै रिति चन्द्रस्य नापेक्षा, तदन्यैर्ग्रह श्चतुर्भिः पञ्चभिः षद्भिर्वा दृष्टे प्रतिलग्नं द्वाविंशतिराजयोगाः, एवं चन्द्रेऽपि वोत्तमगते राशि राशिं प्रति द्वाविंशतिः। कथं ? लग्ने चतुर्भिदृष्टे पञ्चदश १५ भेदाः, पञ्चभिदृष्टे षट् ६, षभिरेकः १ । तथाहि-लग्ने रविभौमबुधगुरुभिदृष्ट एको योगः १,
Aho! Shrutgyanam