________________
१७२
आरम्भ-सिद्धिः
बु गु शु'| गु बु शु | बु शु गु | शु बु गु गु शु बु शु गु बु
ततः प्रथमे स्थापनाक्रमे यथा विशांतर्भङ्गा जातास्तथा द्वितीये स्थापना. क्रमेऽपि विंशतिः, एवं तृतीयेऽपि यावत् षष्ठेऽपि स्थापनाक्रमेऽपि विंशति विशतिर्भङ्गाः स्युः । ततो विंशतेः षभिर्गुणने जातं विंशं शतं १२० । तस्य पाश्चात्यानां नवतेः षण्णां च मीलने जाते द्वे शते षोडशाधिक २१६ । एते त्रिकयोगभङ्गाः । एतैः सह एककद्विकयोगानामष्टादशकाष्टोत्तरशतयोर्मीलने त्रिशती द्विचत्वारिंशदधिका ३४२ योगानामुत्पद्यते इति सिद्धम्-:
ग्रहदृष्टिनिरपेक्षान् योगानुक्त्वाऽथ दृष्टि प्लापेक्षं योगद्वयमाहशुक्रं च्या ३या११ म्बु गं पश्यन् जीवो यात्रासु केन्द्रगः। राज्ञां दत्त जयं क्रूरैः कलत्रादित्रयान्यगैः ॥ ६० ॥
व्याख्या---त्रयं सप्तमाष्टमनवमभावरूपम् ॥ बुधो वपुः१सुख ४द्वेषि ६ व्योम १० स्थो वीक्षितः शुभैः। जयाय राज्ञां पापेषु लमा १ स्त७ व्यय १२ वर्जिषु ॥६॥ __व्याख्या-एवं सर्वेऽप्येते यात्रायोगास्त्रीणि शतान्येकंषष्ठयधिकानि ३६१ ॥ अथ समर्थयति-- इति सप्तरूपकार्धेः सकलश्लोकत्रयेण चोक्तेषु । योगेषु राजयोगेष्वपि शुभदा भूभुजां यात्रा ॥६२॥
व्याख्या-रूपकशब्दोऽत्र वृत्तवाची, सप्तानां रूपकाणामधैरर्धेऽर्धे वाक्यसमाप्तेरवश्यंकृतत्वादेवमूचे । राजयोगेष्वपीति, बृहज्जातकोक्ता राजयोगा अपि यात्रायामुपयुज्यन्त इत्यर्थः, ते चामी सर्वकार्येषूपयोगिरवासव्याख्या उपदर्यन्ते, यथा
" वकार्कजागुरुभिः सकलैत्रिभिश्च,
स्वोच्चषु षोडश नृपाः कथितैकलग्ने । द्वयेकाश्रितेषु च तथैकतमे विलग्ने,
स्वक्षेत्रगे शशिनि षोडश भूमिपाः स्युः ॥ १ ॥" सकलैरिति एषु चतुर्वपि स्वोच्चस्थेषु । कथितैकलने, इत्येषां चतुर्णा ग्रहाणां मध्य देकैकस्मिन् लग्नगे चत्वारो राजयोगाः । विभिश्चेति तेषां मध्यात्रिषूच्चस्थेषु तेषामेव च त्रयाणां मध्यादेकैकस्मिन् लग्नगे द्वादश, एवं षोडश । तथा द्वयकाश्रितेविति, एतेषां चतुण, वक्रादिग्रहाणां
Aho! Shrutgyanam