________________
चतुर्थी विमर्श
एव । ततो ज्ञगुरुशुक्राणां त्रिकं समुदितमेव षट्सु स्थानेषु तिष्ठतीति जातः षड्भङ्गाः । अथ धियां बुधं धम्र्मे गुरुशुक्रौ च न्यस्य समुदितावेव तौ पुनः पुनरुत्थाप्य पुरः पुरो मण्ड्येते, एवं लब्धाः पच । धर्मे ज्ञं प्रथमे गुरुशुक्रौ च न्यस्य प्राग्वत् तद्युग्मस्य पुन: पुनरुत्थापनया लभ्यन्ते चत्वारः, तथैव पुनत्रयः, पुनद्व, पुनरेकश्चेति मीलने सर्वे पञ्चदश १५ । एते ज्ञस्य धुरि स्थापने लब्धाः । यदा तु गुरुधुरि स्थाप्यते शेषौ चाग्रे तदाप्यनेनैव करणेन पञ्चदश लभ्यन्ते । यदा च शुक्रो धुरि स्थाप्यते शेषौ चाग्रे तदापि तथैव पञ्चदश । पञ्चदशकत्रयमीलने पञ्चचत्वारिंशत् ४५ । अथ धियां समुदितौ बुधगुरू, धर्मे शुक्रं च न्यस्य, शुक्रस्य पुनः पुनरुत्थाप्य पुरः पुरश्वालने लब्धाः पञ्च । ततो
समुदितौ बुधगुरू प्रथमे शुक्रं न्यस्य शुक्रस्य पुनः पुनरुत्थापनेन लभ्यन्ते चत्वारः, तथैव पुनस्त्रयः, पुनद्दों, पुनरेकश्चेति मीलने सर्वे, पञ्चदश । एते ज्ञगुरुयुग्मस्य धुरि स्थापने लब्धा: । यदा तु ज्ञशुक्रयुग्मं धुरि स्थापयते गुरु श्राग्रे तदाप्यनेनैव करणेन पञ्चदश लभ्यन्ते । यदा च गुरुशुक्रयुग्मं धुरि स्थाप्यते बुधश्चाग्रे तदापि तथैव । पञ्चदशकत्रयमीलने च पुनरपि पञ्चचत्वारिंशत् ४५ । पञ्चचत्वारिंशतोर्द्वयस्य मीलने नवतिः ९० । अथ धियां बुधं धर्मे गुरुं प्रथमे शुक्रं च न्यस्य, शुक्रः पुनः पुनरुत्थाप्यते तदा चत्वारो लभ्यन्ते, यदा च गुरुत्थाय प्रथमे मण्ड्यते शुक्रश्च चतुर्थे तदापि शुक्रस्य पुनः पुनरुस्थापने त्रयो लभ्यन्ते । एवं गुरोः पुरः पुरश्वारणेन शुक्रस्य पुनः पुनरुत्थापनया च पुन २ । पुनस्तथैवैकः १ । सर्वेऽप्येते दश १० । एते बुधे धुरि स्थिते लब्धाः । यदा च बुधोऽप्युत्थाप्य धर्मे मण्ड्यते, शेषौ चाग्रेतनस्थानयोस्तदाध्यक्षचारणिकया लभ्यन्ते षट् ६ । यदा बुधः पुनः पुनरुत्थाप्य प्रथमे मण्ड शेषौ चाग्रतनस्थानयोस्तदाऽप्यक्षचारणया त्रयो लभ्यन्ते । पुनर्बुधस्योत्थाप्य पुरश्वाने एकः । एतेऽपि सर्वे दश १० । दशकद्वययोगे विंशतिः २० । एते बुधगुरुशुक्र इति स्थापनाक्रमे सति लब्धाः । इह च स्थापनाक्रमाः षट् स्युः । कथं ? यथा-' 'पुव्वाणुपुविवहिट्ठा समयाभेएण कुरु जहाजिहं । उवरिमतुलं पुरओ निसिज्ज पुग्वक्कमो सेसो || 9 || जम्मि उ निखिखते खलु सो चेत्र हविज अंकविन्नासो । सो होइ समयभेओ वज्जेभन्वो पयत्तेण ॥ २ ॥
"
इति गाथोक्तकरणेनैककद्विकत्रिकाणां षोढा स्थापनाक्रमः स्यात्, तथाहि
१७१
१२३-२१३-१३२-३१२-२३१-३२१
तथाsत्र ज्ञगुरुशुक्राणामेककद्विकत्रिकरूपत्वकल्पनया षोढा स्थापनाक्रमः स्थाप्यते, तथाहि
Aho ! Shrutgyanam