________________
१७०
आरम्भ-सिद्धिः
सिद्ध्यै धी५ धर्म९ केन्द्रेषु बुधवाक्पति भार्गवैः । योगोऽधियोगो२ योगाधियोग ३ क१द्विक २त्रिकैः ३ ॥ ५९ ॥
व्याख्या- बुधगुरुशुक्राणामन्यतम एकश्चेत् धीधर्मकेन्द्राणामन्यतमस्थानस्थ: स्यात्तदा योगः १ । द्वौ चेत्तथा तदाऽधियोगः २ । त्रयोऽपि चेत्तथा तदा योगाधियोगः ३ । एषां फलान्येवं दैवज्ञवल्लभे
"योगेन यो याति नृपोऽरिदेशं, सुखेन सोऽभ्येत्य १, धियोगयाता । प्राप्नोति कीर्ति विजयं धनञ्च २, योगाधियोगेन महीमशेषाम् ३ ॥१॥"
अनाम्नाय :- यद्यपरो यात्रायोगो लभ्यते वा न लभ्यते वा परमुभयथाsपि यात्रा तदैव कार्या । यदि बुधगुरुशुक्राणामन्यतम एकोऽपि धीधर्मकेन्द्राणामन्यतमे स्थाने स्थितः स्यात् द्विप्रभृतीनां तु किमुच्यते ? इह च स्थूरवृत्त्या योगास्त्रयः, सूक्ष्मेक्षिकायां तु द्विचत्वारिंशदधिका त्रिशती ३४२ योगानामुत्पद्यते । कथमिति चेदुच्यते- एकक योगास्तावदष्टादश । कथं ? धीधर्म केन्द्रस्तावत् घट् स्थानानि सन्ति, तथाहि ५-९-१-४-७-१० । एषु षट्सु प्रत्येक बुध एवैकः स्थित इति लब्धा बुधेन षड्भङ्गाः । एवं गुरुशुक्राभ्यामपि प्रत्येकं षट् षट्, एवमष्टादश १८ ।
अथ द्विकयोगा अष्टोत्तरं शतं । कथं ? ज्ञगुरुशुक्राणां ग्रहाणां तावत्रीणि द्विकानि स्युः । तथाहि - ज्ञगुरू १ ज्ञशुक्रौ २ गुरुशुक्रौ ३ चेति । तत्र ज्ञगुरू समुदितौ प्रत्येकं षट्स्थानेषु स्थिताविति लब्धा एकेन द्विकेन षड्भङ्गाः । एवं शेषद्विकाभ्यामपि षट् षड् लभ्यन्ते, एवमष्टादश १८ । एते समस्तद्विकयोगाः ॥ अथ व्यस्तद्विकयोगाः, तथाहि -धियां बुधं धर्मे च गुरुं न्यस्य, गुरुः पुनः पुन रुत्थाप्य षष्ठं पदं यावच्चाल्यते, अनेनाक्षचारणिकाख्यकरणेन लब्धाः पञ्च भङ्गाः । पुन बुधं प्रथमे गुरुं च न्यस्य पुनः पुनर्गुरुरुत्थाप्य पुरः पुरो मण्ड्यते, एवं लब्धाश्चत्वारः ४ । एवमेव पुनस्त्रयः ३ । पुनद्वौ २ । पुनरेक १ श्वेति मीलने सर्वे पञ्चदश १५ । एते ज्ञगुर्वोः क्रमस्थापनया लब्धाः । यदा खेतौ विपर्ययेण स्थापयेते, कथं ? धियां गुरुर्धर्मे बुधः इति न्यस्य, बुधः पुनः पुनरुत्थाप्य पुरः पुरो मण्ड्यते, एवं लभ्यते पच । पुनर्धम्र्मे गुरुं प्रथमे बुधं च न्यस्य बुधस्य पुनः पुनरुत्थापनया लभ्यन्ते चत्वारः । तथैव पुनस्त्रयः, पुनद्द, पुनरेकश्चेति मीलने एतेऽपि पञ्चदश । उभयोः पञ्चदशकयोर्योजने त्रिंशत् ३० . | एते प्रथमद्विकेन क्रमोत्क्रमस्थापनाभ्यां लब्धाः । एवमेव द्वितीयद्विकेऽपि मोक्रमाभ्यां त्रिंशत् ३० । तृतीयद्विकेऽपि तथैव त्रिंशत् ३० । तिसृणां त्रिंशतां योगे नवतिः ९० । पाश्चात्याष्टादशयोजनेऽष्टोत्तरशतं द्विकयोगाः १०८ | अथ त्रियोगाः षोडशाधिका द्विशती २१६ । कथं ! त्रयाणां त्रिकयोगस्ताव देक
Aho ! Shrutgyanam