________________
चतुर्थो विमशः
" नायकाः स्युः प्रसूतौ ये रक्षका ये च वर्धकाः । ते क्रूरा अपि यात्रायां लग्नस्थाः शुभदा ग्रहाः ॥ १॥"
इांत देवज्ञवल्लमे । एषां च स्वरूप बृहज्जातके ॥ वक्री केन्द्रेऽथ तद्र! लग्ने यातुर्जयापहः । गतिप्रमाणवर्णैर्वा विकृतश्च नभश्चरः॥ ४५ ॥
व्याख्या-अर्केन्द्वोर्वक्रासम्भवाझौमाद्यन्यतरो यो ग्रहस्तदानीं वक्रगोऽस्ति स एकोऽपि यात्रालग्ने केन्द्रस्थो जयं हन्ति, किं पुनर्वित्राः? अथेति तस्यैव वक्रिणो ग्रहस्य वर्गो होराया असम्भवाद् गृहद्रेष्काणनवांशादिरूपश्चेल्लग्नेऽस्ति तदा सोऽप्यशुभः । वक्रमार्गदिनसङ्ख्या चेयं ज्योतिषसारे"पणसट्टि ६५ इकवीसा २१ बारस अहियं सयं च ११२ बावन्ना ५२। चउतीस सयं च १३४ कमा वक्कदिणा मङ्गलाईणं ॥ १ ॥ लगसय पणाल७४५विणवइ९२चुआलसय १४४ पञ्चसयचउव्वीसा५२४॥ दोअ सया चालीसा २४० मङ्गलमाईण मग्गदिणा ॥ २ ॥".
गतीत्यादि गत्यायेविकृतोऽपि ग्रहो यात्रालग्ने मूत्तौ न शुभः, अतिचरितो अहो गतिविकृतः । अतिचारस्वरूपं चैवं लल्लोक्तम्" पक्षं १ दशाहं २ त्रिपक्षी ३ दशाहं ४ मासषट्तयी ५ । अतिचारः कुजादीनामेष चारस्त्वितोऽपरः ॥ १॥" ग्रहाणां
श.
वक्रदिनानि |
११२
१३४
मार्गदिनानि | ७४५ ९२ | १४४
५२४]
२४०
अतिचारः | पक्षं | १० त्रिपक्षी| १० ६ मास प्रमाणेति पूर्वप्रमाणात् हस्वो महान् वा खे लक्ष्यमाणः प्रमाणविकृतः, एवं वर्णविकृतोऽपि भाव्यः। लल्लस्स्वाह-“यस्य ग्रहस्य जन्मक्षं फरग्रहोल्काद्यैः पीडितं स्यात्सोऽपि ग्रहो यात्रालग्ने मूत्तौ न शुभः" ग्रहजन्माणि चैवं"विशाखा १ कृत्तिका २ प्यानि ३ श्रवणो ४ भाग्य ५ मिज्यभम् ६। रेवती ७ याम्य ८ मश्लेषा ९ जन्माण्यर्कतः क्रमात् ॥ १॥"
उत्तरान्तश्चरो भानो शुभो नान्यस्तनौ ग्रहः । फलेन वर्गो वारश्च तनुगव्योमगोपमः ॥ ४६॥
Aho! Shrutgyanam