________________
१६४
आरम्भ-सिद्धिः
-
व्याख्या--इष्टेऽह्नि यत्राऊदयास्ते स्यातां तत्स्थानं सम्यग्निीय चिह्नयितव्यं, यत्र च विवक्षितग्रहस्योदयास्ते स्यातां तदपि । एवं च योऽर्कादुदीच्यामुदेत्यस्तमेति च स उत्तरचरः । यश्चार्कस्थान एवोदेत्यस्तमेति च सोऽन्तश्चरः । एतौ यात्रालग्ने मूत्तौ शुभौ । अन्य इति अर्का दक्षिणचरस्त्वशुभः । इदं च मूर्तिग्रहस्वरूपमिह यद्यपि यात्रामुद्दिश्योक्तं तथापि विवाहादिसर्वकार्यलग्नेष्वपि योज्यं । विशेषस्तु" लग्नेऽकारी शनेर्धाम्नि शुभावन्यत्र भदौ ।
शीतांशुरुदयप्राप्तः सर्वकार्येषु नाशदः ॥ १ ॥ जीवशुक्रशनिस्थाने स्थितो लग्ने जयार्थदः ।। स्थानेष्वन्दुभौमानां शशितूनुरनर्थदः ॥ २ ॥ मन्दारबुधसूर्याणां स्थानेषु शुभदो गुरुः । शुक्रेन्दुस्थानगो लग्ने धनयोधविनाशकः ॥ ३ ॥ सौम्यस्थाने शितः शस्तो लग्नस्थोऽन्यत्र नेष्टदः । छायापुत्रो रविस्थाने प्रीतिदोऽन्यत्र नाशदः ॥ ४ ॥ स्वस्थाने न शुभो मन्दो लग्नेऽन्यत्र शुभावहः । यात्रायां चन्द्रमाः शस्तो दिग्बलेन विवर्जितः ॥ ५ ॥"
इति देवज्ञवल्लभे ।
इत्युक्ता सार्धषट्श्लोकैर्मुर्तिस्थग्रहव्यवस्था। अथ यात्रालग्ने षड्वर्ग वारच नियमयति-फलेनेति वर्गः षड् वः यात्रादिने वारश्च तनुगो मुर्तिस्थो यो व्योमगो ग्रहस्तत्तुल्य फलो ज्ञेयः। अयं भावः-जन्मन्यनिष्ट इत्यत आरभ्यतच्छलोकपूर्वाधं यावदक्तया रीत्या यादृशो ग्रहो मौ शुभोऽशुभो वा निर्धारितखादृशस्यैव ग्रहस्य षड्वों ग्रहहोरादिमृत्तौ शुभोऽशुभो वा ज्ञेयः । यात्रादिने वारोऽप्येवमेव निर्धार्यः विशेषस्तु" उपचयकरस्य वर्गः करस्यापि प्रशस्यते लग्ने । चन्द्रो वा तद्युक्तो न तु विपरीतस्य सौम्यस्य ॥ १ ॥ उपचयकरग्रहदिने सिद्धिः करेऽपि यायिनां भवति । सौम्येऽप्यनुपचयकरे न भवति यात्रा शुभा यातुः ॥ २ ॥"
इति लल्लः । तथा"सौम्योऽपि न शुभं दत्ते रिपोर्वारे विलमपः । वारे मित्रस्य पापोऽपि भवेच्छुभफलप्रदः ॥१॥” इति दैवज्ञवल्लमे ।
तथा येषां वारः शुभोऽशुभो वा तेषां कालहोराऽपि तथैव । तत्फलं चैवं"रूपं ग्रहस्य वर्ग स्वदिने द्विगुणं स्वकालहोरायाम् । त्रिगुणमरिवर्गयोगे फलस्य प्रान्त्यस्तृतीयांशः॥१॥" इति शौनकः । तथा--
"बलिनः कण्टकसंस्था वर्षाधिपमासदिवसहोरेशाः ।। द्विगुणशुभाशुभफलदा यथोत्तरं,ते परिक्षेयाः ॥ १॥” इति ललः ।
U
Aho! Shrutgyanam