________________
चतुर्थी विमर्श
१६१
दशाक्रमतत्प्रमाणतद्विभागादिस्वरूपं च जातकादिभ्यो ज्ञेयं, इह त्वप्रस्तुतत्वादतिविस्तरत्वाच्च न प्रतन्यते, स्थानाशून्यार्थं तु वार्षिकं दिनदशाप्रमाणं स्थूलं दर्श्यते, तथाहि
33
" निजनामराशितः प्रभृति गण्यते वर्तमान सङ्क्रान्तेः । गतदिवसावध्येवं दिवसदशाः स्युः क्रमादेताः ॥ १ ॥ रवी १ न्दु २ भौम ३ ज्ञ ४ शनी ५ ज्य ६ राहु ७ सकेतु ८ शुक्रेषु ९ नखाः २० खबाणाः ५० । अष्टावि २८ षड्वाण ५६ रसाग्नि ३६ देव ३३ देवा ३३ तिशीत्य ३४ भ्रहया ७० दशाहाः ॥ २ ॥ सर्वे दिनाः षष्ट्यधिका त्रिशती ३६० ।
59
“ हानिं १ धनं २ रुजं ३ लक्ष्मीं ४ दैन्यं ५ लक्ष्मीं ६ च बन्धनम् ७ । भयं ८ श्रियं ९ चार्कादीनां दद्युर्दिनदशाः क्रमात् ॥ ३ ॥
अत्रायमाम्नाय :- स्वनामराशौ यद्दिनेऽर्कः सङ्क्रान्तस्तद्दिनादारभ्य वर्तमानदिनं यावद्दिना गण्यन्ते इयन्तो दिना गता इति, तत्राद्या विंशतिर्दिना रवेर्दिनदशा: अग्रे पञ्चाशद्दिना इन्दोरित्यादि, एवं गणने यस्य ग्रहस्य दिनदशा तदानीं समेति स दशापतिरिति । 'सद्यः सफल' इति यस्तदानीं गोचरेण प्रतिकूलवेधेन वा शुभः स सद्यः सफल:, यस्तु गोचरेणानुकूलवेधेन वाऽशुभः स सद्योऽफलः । तथा जन्मपत्रिकायां यो बली रूपवानित्यादिवदतिशायने मत्वर्थीयोऽयं ततो यः सर्वोत्कृष्टबल इत्यर्थः । 'इतर' इति यो वर्तमानदशेशस्यारिः, यो वा तदानीम फलः, यो वा जन्मकाले निर्बल इति । ननु यदि जनने बलीत्युक्तं तदा जन्मनि सर्वोत्कृष्टबलोsपि यो मृत्युस्थत्वादिनाऽनिष्टदस्तस्यापि मूर्ती ग्राह्यत्वप्रसङ्गः । मैवं, " जन्मन्यनिष्टः सौम्योऽपि" इत्यनेनैव तस्य निषेधभवनात् ॥
३४ ७०
ग्रहाणां र. सो मं. बु. श. गु. रा. के शु. , दशादिनानि २० ५० २८ ५६ ३६ ३३ ३३ फलम् हानिः धनं रुजं लक्ष्मी दैन्य लक्ष्मी बंधनं भयः श्रीः आ. सि. १४
जन्मकाले विधोर्यद्वाऽन्योऽन्येनोपचयस्थिताः । तानाख्याः सौम्यवत्क्रूरा जानकोक्ताश्च कारकाः ॥ ४३ ॥ व्याख्या - जन्मपत्रिकायां चन्द्रात्रिषड्दशैकादशस्थानां ग्रहाणां चन्द्रापेक्षय तानसंज्ञा । तथा जन्मन्येव येऽन्योऽन्यस्मादुपचय स्थास्तेषामप्यन्योऽन्यं तान संज्ञा । कोऽर्थः ? पितृपुत्रगुरुशिष्यादिवत्तानशब्दस्य सम्बन्धिशब्दस्वेन द्विष्ठत्वा
Aho! Shrutgyanam