________________
आरम्भ-सिद्धिः
-
"ख १० स्थशनिवर्जमुपचयगाः ऋराः सर्वगाः शुभाः सौम्याः । हित्वास्ते ७ सितमष्टम ८ लग्न १ ग-शशिनञ्च यात्रायाम् ॥१॥"
इति कृता यात्राकुण्डलिकायां सामान्येन द्वादशभाव विचारणा ॥ अथ मूर्तिस्थग्रहव्यवस्थामाहजन्मन्यनिष्टः सौम्योऽपि न लग्नस्थः शुभो ग्रहः । तत्रेष्टदस्तु पापोऽपि यात्रालग्रस्थितः शुभः ॥ ४० ॥
___ व्याख्या-सौम्योऽपि यो जन्मसमये मृत्युव्ययभवनस्थत्वादिना अशुभा स यात्रालग्ने मूतों न शुभः, तत्रेष्टद इति. यस्तु रोऽपि रिपु ६ लाभ " स्थानादिना जन्मनीष्टदः स यात्रालग्ने मूर्ती शुभ एव, जन्मशुभाशुभग्रहाच विस्तरतो जातकाज्ज्ञेयाः । समासेन त्वेवम्"क्रूरास्त्रिषडायस्थाः सितेन्दुगुरवोऽन्तिमाष्टरिपुवर्जाः । ध्यष्टान्तिमरिपुवर्जी बुधः प्रशस्यो जननसमये ॥ १ ॥" स्थापना
जन्मकुण्डलिकायां शुभाः ।
रवि
३-६-११
चन्द्र मंगल बुध
१-२-३-४-७-९-१०-११ 1-२-३-४-५-७-१-१०-११
गुरु
शनि
पापोऽप्यभीष्टदो जन्मलग्नःस्वामिनोः सुहृद् । मूर्तिस्थितः शुभोऽपि स्यादशुभोऽरातिरेतयोः ॥४१॥
व्याख्या---जन्मलग्नाति जन्मलग्नेशजन्मराशीशयोर्यों मित्रम् ॥ सुहृद्दशापतेः सद्यः सफलो जनने बली। करोऽपि विविधो भद्रस्तनौ सौम्योऽपि नेतरः॥४२॥ व्याख्या-यात्राकाले यस्य ग्रहस्य दशाऽस्ति स दशापतिस्तस्य सुहृन्मित्रम् । विशेषस्तु दशापतिरपि यात्रासमये सबलो विलोक्यते । यल्ललः
" यात्रा नैव दशापतावुपहते नैवास्तगे नावले, . नीचस्थे न च नैव वक्रिणि नृणां देया कदाचिद् बुधैः । " इति
Aho! Shrutgyanam