________________
चतुर्थी विमर्श:
क्षुतगृहकलहज्वलनौ तु युद्धदुर्वचनवसन सङ्गाद्यम् | अशुभं यात्रावसरे शुभमपि शकुनागमाद्विन्द्यात् ॥ २४ ॥
व्याख्या -क्षुतेति, उक्तञ्च -
१५३
" सर्वतः श्रुतमशोभनमुक्तं, श्वौतुगोपशुकृतं मृतिदं तु । केचिदाहुरफलं हि बलाद्यद्वृद्धपीनसिकबालकृतं च ॥ १ ॥ "
गृहेति गृहशब्दः कलह ज्वलनाभ्यां योज्यः । ओतुयुद्धेति महिषादियुद्धमपि । दुर्वचनं माडगा: मरिष्यसीत्याद्यमङ्गलवाक्यं । वसनाञ्चलस्य सङ्गः कपाarat विलगनं । आद्यशब्दात् शिरः संघट्टांह्निस्खलनादि । शुभमपीति शुभाशुभं शकुनं ज्ञात्वा कुर्यान्न कुर्याद्वेति भावः । विशेषस्तु
" रिक्तोऽनुकूलः कुम्भोऽम्भः प्रणाय प्रयोजितः । विद्यार्थिचौरवणिजां प्रयाणेऽतीव सिद्धिदः ॥ १ ॥ इति भास्करव्यवहारे ।
""
अस्यायं भावः- यात्रायां चेत् कश्चित् रिक्तघटहस्तो जलार्थी अध्वगेन सह समेति तदा सोsपि घट इव पूर्णीभूय निवर्तते । तथा-
४८
"
आधे विरुद्धे शकुने प्रतीक्ष्य प्राणान्नृपः पञ्च च षट्च यायात् । अष्टौ द्वितीये द्विगुणास्तृतीये, व्यावृत्य नूनं गृहमभ्युपेयात् ॥ १ ॥ इति रत्नमालायां ।
अत्र प्राण: पलस्य षष्ठांशरूपः । पञ्च षट् चेत्येकादश । अष्टौ द्विगुणान् षोडशेत्यर्थः । शकुनागमादिति वसन्तराजादिरचितशकुनशास्त्रात् । अयमन्त्राभिसन्धिः - अन्यैराचार्यैः स्वस्वग्रन्थेषु यात्राधिकारे तशकुना अपि विस्तरेणोक्ताः, अस्माभिस्त्विहा प्रस्तुतत्वाच्छकुनशास्त्रादपि तत्परिज्ञानसंभवाच्च न ते प्रोक्ताः ॥
चातुर्वर्ण्यसाधारण यात्रामुक्त्वाऽथ रिपुविजयप्रयोजनां नृपादियात्रां चत्वारिंशता श्लोकैः कथयन्नादौ दुर्निमित्तपरिहारमाहआकालिकीषु विद्युद्गर्जितवर्षासु वसुमतीनाथः । उत्पातेषु च भौमान्तरिक्षदिव्येषु न प्रवसेत् ॥ २५ ॥
,
व्याख्या-- आकालिक्योsa ऽ कालजाः गर्भ वर्षाकालं व। विना सञ्जाता इत्यर्थः । वसुमतीनाथ इति, उपलक्षणत्वात्सामन्तादेराचार्यादीनां च ग्रहणं । उत्पातेषु चेति चकाराद्वाहुयोगिन्यावपि चिन्तयेदिति रत्नभाष्ये । भौमेत्यादि भौमो भूमिकम्पधडहडादिः । यच्च चराणां स्थिरत्वं स्थिराणां वा चरत्वं पुष्पफलादिवैकृतं वा स सर्वोऽपि भौम उत्पातः । आन्तरिक्षा उल्कानिर्घातपवन गन्धर्वपुरशक्रचापरोहितैरावत परिवेषदण्डपरिघादयः । दिव्याश्चन्द्रार्केपरागादिग्रहर्क्षवैकृतकेतुदर्शनादयः । लालाट धनुरैन्द्रं न शुभकृदन्यत्र शस्तफलमिति तु ललः । न प्रवसेदिति, आ सप्ताहादिति दैवज्ञवलमे । एकाहं तु
Aho ! Shrutgyanam