SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १५२ आरम्भ-सिद्धिः पलपञ्चकं सक्रान्तेः प्रथमदिने भ्रमणद्वयेन स्वदिशि शिवः स्थित्वा ततः हष्टयाऽन्यदिशि याति । एवं द्वितीयदिनेऽपरं पलपञ्चकमिति दश पलानि स्थितिः । एवमेव तृतीयदिने पञ्चदश पलानि । एवं प्रत्यहं पञ्च पच पलानि तावद्वर्धनीयानि यावरसक्रान्तेश्वरमे त्रिंशे दिने सार्धशतपलैः साधं घटीद्वयं पूर्ण शिवस्य स्वदिशि स्थितिः स्यात् । तदनु पुनः संहारेण द्वितीयदिश्यप्यागत. स्वायमेव क्रमो ज्ञेयः ॥ " विवादे शत्रुहनने रणे झगटके तथा । द्यूते चैव प्रवासें वा पृष्ठे मुष्टौ शिवे जयः ॥ ३ ॥ स्वराश्च शकुना दुष्टां भद्रा ग्रहबलं तथा । दिग्दोषा योगिनीमुख्या अभयाः स्युः शुभे शिवे ॥४॥" तथा" सूर्यराश्यादितः सव्ये लग्नं तत्कालसम्भवम् । पृष्ठदक्षिणगं कृत्वा जयेद्युद्धे न संशयः ॥ १ ॥ अस्यार्थ:-यत्र राशावोऽस्ति तत्पूर्वस्यां दत्त्वा तत आरभ्य सृष्ट्या गण्यते, सतश्च तदानीं यद्वर्तमानं लग्नं स्यात्तत् पृष्ठतो दक्षिणतो वा कृत्वा ॥ युद्धादि कुर्वन् जयी स्यात् ॥ उक्ता यात्रायां समयशुद्धिर्दिकशुद्धिश्च । मथ चेष्टानिमित्तादीनां शुद्धिमाहउत्सवमशनं स्लानं प्रगुणं चोपेक्ष्य मङ्गलमशेषम् । असमापिते च सूतकयुगेऽङ्गनत्तौ च नो यायात् ॥ २२ ॥ व्याख्या-प्रगुणत्वं सर्वेषु योज्यं । उत्सव: कौमुद्यादिः । सानमुल्लाघनस्य सामान्येन वा । मङ्गलं विवाहपुत्रानप्राशनादि । सूतकयुगं जातमृतसूत कमेदात् ॥ अवमन्य माननीयान्निर्भयं स्त्री च कमपि संताड्य । बालमपि रोदयित्वा जिजीविषु व निर्गच्छेत् ॥ २३ ॥ व्याख्या-अत्रैतदपि लल्लोक्तं लक्ष्यं" प्रमत्तो व्याधितो भोतः श्रान्तः क्रुद्धो बुभुक्षितः । अध्वानं न प्रपद्येत क्लीबवेषस्तथैव च ॥ १ ॥ रात्रौ तु मैथुनं कृत्वा प्रभाते योऽभिगच्छति । यात्राकालेऽथवा प्राप्त मैथुनं यो निषेवते ॥ २ ॥ यो वाःप्रस्थानके गत्वा पुनर्गहमुपागतः । इत्येवमादिचेष्टाभिः सिद्धिर्नात्यभिगच्छतः ॥ ३ ॥" Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy