________________
९५४
आरम्भ-सिद्धिः
त्याज्यमेवेति सारङ्गः । दृष्टः केतुः षोडशाहं विवर्ज्यश्चैत्रे वैशाखे च दृष्टः शुभोऽसौ इति तु वराहः ॥ अथ यात्रार्थं लग्नमाह - यातव्यं दिग्मुखे लग्ने सिध्ध्यै शीर्षोदये तथा । एतद्विलोमयोर्जातु यात्रा यातुर्न सिद्धये ।। २६ ।।
व्याख्या -- मेषाद्याश्चत्वारश्चत्वारश्वत्वारश्चतुर्दिगीशा इति प्रागुक्तं, ते च तत्तद्दिग्मुखा इति ज्योतिर्ज्ञाः । तथा चेयं चतुर्दिग्मुखलग्नानां स्थापना । ( समीपस्थपत्रे विलोक्या) विशेषस्तु - यात्रायां लग्नं प्रायश्वरमेव ग्राह्यं । एतद्विलोमयो- रिति उत्तरपूर्वामुखलग्नेषु यथासङ्ख्यं दक्षिणपश्विमामुखलग्नेषूत्तरपूर्वागमने पृष्टोदयलग्ने चेत्यर्थः । न सिद्धये इति यल्लल: - "अनिष्टदं दिक्प्रतिलोमलग्नं पृष्ठोदये वाञ्छित कार्य नाशः ॥
•
लग्नस्य दिग्मुखचक्रम्
पश्चिम
मिथुन तुला कुंभ
उत्तर
कर्क वृश्चिक मीन
(6
दक्षिण
ह
मेष सिंह धन
पूर्व
जन्मलग्ने शुभा यात्रा जन्मराश्युदये तु न । तयोश्चोपचयस्थेषु राशिष्विष्टा परेषु न ||२७||
यात्रा
व्याख्या - जन्मलग्ने इति यात्रा - कर्तुर्नृपादेर्यजन्मलग्नं तस्मिन् लग्ने शुभा, एवमग्रेऽपि भाव्यं । अनेन चेदं सूचयति - आदौ तावज्जनुलग्ने ज्ञाते सति यात्रालग्नं देयं, नान्यथा, यतो जन्मलग्ने ज्ञाते सति
दशायुर्ब्रहबलान्यवलोक्य दत्तं यात्रादिमुहूर्त्त फलदं स्यात् । अज्ञातजन्मनोऽप्यन्यैर्यानं योज्यमिति स्मृतम् । प्रश्न लग्ननिमित्ताद्यै विज्ञाते सदसत्फले ॥ १ ॥
""
इति रत्नमालायां । अत्र यानं योज्यमिति यात्रालग्नं देयमित्यर्थः । जन्मराशीति जन्मनि यत्रेन्दुः स जन्मराशिः स एवोदयो लग्नं तत्र यात्रा न शुभा । रत्नमालायां तु जन्मराशिलग्नेऽपि शुभा यात्रेत्युक्तं । तयोरिति जन्मलग्नजन्मराश्योरपेक्षया ये उपचयस्थास्त्रिषड् दशैकादशा राशयः परेषु द्वयोरप्यनुपचयस्थराशिषु यात्रा नेष्टा । विशेषस्तु-राशेर्जन्मराशिर्जन्मलग्नं वा तदधिपौवा तत्काललग्नाच्चतुर्थे सप्तमे वा स्थानके भवतस्तदाऽपि यात्राकर्तुर्जयः यदि च शत्रु खत्कजन्मराशि जन्मलग्नयोरुपचयगृहाणि चतुर्थे सप्तमे वा स्युस्तदापि जय एवेति रत्नमालायाम् ॥
पारस्ताम्बुगैर्दृष्टे युते वा जन्मलग्नभे । सौम्यग्रहस्तु नैवं चेत्तदा यातुः पराभवः ॥ २८ ॥
Aho ! Shrutgyanam