________________
१४०
आरम्भ-सिद्धिः
-
भयमाग्नेयवायव्यकोणावलंबितान्तरालरेखारूप: परिघो नोलंध्यः । अयमर्थ:धनिष्ठादिचतुर्दशभेपूत्तरप्राच्योरेव, मघादिचतुर्दशभेषु दक्षिणप्रतीच्योरेव च गन्त. व्यं । मध्यमानीति मिथः स्वानि स्वजनभूतानि परिकपार्श्वस्थत्वेन यानि भानि सन्ति, तेषां दिशोस्तानि पार्श्वस्थदिगुक्तानि भानि यात्रायां मध्यमानि स्युः, न शुभानि नाप्यशुभानीत्यर्थः । अयं भाव:-धनिष्ठासप्तकस्य कृत्तिकासप्तकं स्वं, तहिक पूर्वा, तस्यां गमने धनिष्ठासप्तकं मध्यमं । एवं कृत्तिकासप्तकस्य धनिष्ठासप्तकं स्वं, तहिक उत्तरा, ततस्तस्यां गमने कृत्तिकासप्तक मध्यमं । एव. मन्यार्धेऽपि भाव्यं । नन्वेवं परिघोकत्या दिक्षु यात्रायां भनियम उक्तः, विदिक्षु यात्रायां तु को भनियमः ? उच्यते--पूर्वद्वारभैराग्नेयीं व्रजेत, दक्षिणद्वारभैनैऋती, पश्चिमद्वारभैवीयवीं, उत्तरद्वारभैरैशानी चेति स्फुटमेव, विदिशां दिगनु. गामित्वात् । उक्तञ्च दैवज्ञवल्लभे-" यायात् पूर्वद्वारभैरग्निकाष्ठां प्रादक्षिण्ये. नैवमाशा विपूर्वाः " । अत्राशा विपूर्वा इति विदिश इत्यर्थः । विशेषस्तु__ " स्वामिनः सप्त भौमाद्याः क्रमतः कृत्तिकादिषु ।
प्राच्योदौ तत्सनाथेषु तेषु यात्रा महाफला ॥ १ ॥" __इति पूर्णभद्रः । अस्यार्थः-कृतिकादिभसप्तकस्य क्रमेण भौमाद्याश्चन्द्रान्ताः सप्त ग्रहा: स्वामिनः, तेषु स्वस्वभस्थेषु पूर्वस्यां यात्रा शुभा । एवं मघादि. सप्तभानां तथैव भौमाद्याः सप्तेशाः, तेषु तत्तद्भस्थेषूदीच्यां यात्रा शुभा। एवं शेषदिशोरपि भाव्यं । तथा" प्राच्यादिषु चरन् भानुः सप्तके कृत्तिकादिके ।। वितनोति दिशामस्तं यात्रा तासु कृता श्रिये ॥१॥” इत्यपि पूर्णभद्रः ॥ उल्लंघ्यः परिघोऽपि लग्नबलतः शूलं तु भानां सदा, हेयं तच्च पुनः सुरेश्वरदिशि ज्येष्ठाम्वुविश्वोडुभिः । राधावैष्णववासवाजपदभै म्यां प्रतीच्यां पुनर्लाह्मया, मूलयुजा तथोत्तरदिशि स्यादर्यमःण च ॥ ८ ॥
व्याख्या- उल्लंघ्य इति एकान्तिकेंषु कार्येषु, परचक्रागमादिषु शुद्धे यात. व्यदिङ्मुखे ग्रहबलोपेते यात्रालग्ने सति परिघलङ्घनं न दोषायेत्यर्थः सदेति चलनक्षत्रेषु सत्सु, लग्नशुद्धावपि न गच्छेत्, यतो भशूलदोषः शुद्धलग्नेनापि न टलति । उक्तञ्च-"त्यजेल्लग्नेऽपि शूललं, शूलः नास्ति निवृतिः" इति व्यवहारप्रकाशे। सुरेति पुांबुविश्वोडुनी पूर्वोत्तराषाढे यामी दक्षिणा ।
Aho! Shrutgyanam