________________
आरम्भ-सिद्धिः
" रित्ततिहि असुहजोगे कूरविलग्गाइ कूरवारे अ।
आयरह कसिणपख्खं असुहे अन्नत्थ विवरीअं ॥ १ ॥"
अत्र 'कूरविलग्गाइ त्ति' यल्लग्नं करषड्वर्ग करग्रहाध्यासितं ऋरदृष्टं वा, भादिशब्दान्नक्षत्रेष्वपि नीयोग्रमिश्रेषु करग्रहाध्यासितेषु पातोपमहादिहतेषु वा । 'क्रूरवारे अ' त्ति चशब्दात् क्रूरग्रहहोरायां करकरणे च विष्टयाख्ये । “ अन्नस्थ विवरीअं ति" शुभे कार्ये तिथ्यादीनि सर्वाणि शुभान्येवादरणीयानि । लममपि शुभषड्वर्ग शुभग्रहाध्यासितं शुभदृष्टं वा । भान्यपि कार्यानुसारेण चरलघुमदुध्रुवाणि सौम्यग्रहाध्यासितानि ग्राह्याणीत्यर्थः । न चैतेषु कार्येषु कश्चिल्लमस्याग्रहः, " लग्नं विवाहे दीक्षायां प्रतिष्ठायां च शस्यते " इति च वक्ष्यमाणत्वात् । ये पुनरेतेष्वपि लग्नमादरीतुमिच्छन्ति, तेषां कृतेऽस्मिन् विमर्शे मौञ्जीबन्धाद्यग्निपरिग्रहान्तकार्याणामधेतनविमर्शे च यात्रायाः वास्तुनिवेशप्रवेशयोश्च सूत्रकृतैव लग्नबलान्युक्तानि । येषु तु नोक्तानि तेष्वेवं" शुक्रज्ययोबलवतोः शेषेष्वबलेषु पुप्रसवयोगे। द्विपदे लग्ने शीर्षोंदयिनि च गुरुशुक्रयुतदृष्टे ॥ १ ॥ यद्वा त्रिकोणकेन्द्रस्थितयोरनयोः स्वजन्मलग्ने वा । लग्नोपचयगे चन्द्रे ऋतौ सुतार्थी भजेद्भार्याम् ॥ २ ॥ "
अत्र पुंप्रसवेति पुंप्रसवयोगो जातकोक्तः । स चवम्"विषमः विषमनवांशसंस्थिता गुरुशशांकलग्नार्काः । पुजन्मकराः सममेषु योषितां समनवांशगताः ॥ १ ॥ बलिनौ विषमेऽर्कगुरू नरं स्त्रियं समग्रहे कुजेन्दुसिताः । लग्नाद्विषमोपगतः शनैश्वरः पुत्रजन्मकरः ॥ २ ॥” इत्याधानम् ।। सीमन्तकर्म पुरुष लग्नेशे च त्रिकोणकेन्द्रस्थे । जीवे त्रिकोणकेन्द्रव्ययाष्टमेष्वशुभरहितेषु ॥ ३ ॥ इति सीमन्तकर्म । गुरौ भृगौ वा केन्द्रस्थे मिश्रतीक्ष्णोग्रवर्जिमे ।। जातकर्म शिशोः कुर्यान्नामविन्यसनं तथा ॥४॥ इति जातकर्म३ नामस्थाने। कर्णवेधः शुभे लग्ने सौम्यग्रहविलोकिते । क्रूरोज्झिते च लाभत्रिसंस्थैः सौम्यग्रहैः शुभः ॥५॥ इति कर्णवेधः ५। ____ अन्नप्राशनलग्ने मादिस्थे ग्रहे फलमेवम्क्षोणे चन्द्रे भिक्षुः संपूर्ण सत्रदश्च यज्वा स्यात् । 'झेज्यसितैर्लग्नस्थैर्नीरुक्क्रूरैर्महाव्याधिः ॥ ६॥ , निधनत्रिकोणकेन्द्रान्त्यगैः फलं तद्यदेव तनुगेषु । लग्नात् षष्ठाष्टमगश्चन्द्रोऽनिष्टः शुभयुतोऽपि ॥७॥ इति पूर्वाशनम् ६ ।
Aho! Shrutgyanam