________________
तृतीय विमर्शः
-
-
राजावलोकनं कुर्यान्मृदुक्षिप्रधुवोडुभिः। वासवश्रवणाभ्यां च सुधीः सर्वार्थसिद्धये ॥ ७२ ॥
व्याख्या-राजेति, यो यस्य स्वामी स तस्य राजा ॥ गजवाजिकर्म नेष्टं रौद्रे पूर्वो ३ त्तरा ३ विशाखासु । भरणित्रितयाश्लेषाद्वितयज्येष्ठाद्वयेषु तथा ।। ७३ ॥
व्याख्या-गजानां कर्म शान्तिकदन्तकर्तनादि । अश्वानां शान्तिकनीराजनादि। रौद्रे इत्यादि शेषेषु तु कार्यमित्यर्थः । सामान्योक्तेऽपि चायं विशेषो दृश्यः-“ अश्विनी ? पुनर्वसु २ पुष्य ३ हस्तत्रयेषु ६ गजानां, तथाऽश्विनी . मृग २ पुनर्वसु ३ पुष्य ४ हस्त ५ स्वाति ६ धनिष्ठा ७ शतभिषक् । रेवती ९ वश्वानां च कर्म कार्यमिति " ॥
गवां स्थानं च यानं च प्रवेशश्च न शस्यते। . तिथो भूताष्टदर्शाख्ये श्रोत्रचित्राध्रुवे च मे ॥ ७४ ॥
व्याख्या-गवामित्युपलक्षणस्वाद् गजतुरगमहिष्यादीनामपि । स्थानमिति बन्धनाथ स्थानकरणं यानं गोचरादौ । प्रवेशो गृहादौ । भूतेति चतुर्दशी ॥ क्रयविक्रयो न हि गवां हस्तज्येष्ठाश्विनीधनिष्ठाभ्यः। अन्यत्र पौष्णवारुणराधादित्यद्वयेभ्यश्च ॥ ७५ ।।
व्याख्या-अन्यत्रेति हस्तादिवेव कार्यावित्यर्थः । अपि च" तीक्ष्णेषु पशुं दमयेत् दारुण्यं न ध्रवेषु संग्राह्यम् ।
पशुपोषणं विधेयं चरेषु दीक्षा रतं मृदुषु ॥१॥” इति लल्लः ॥ हलस्य वाहनारंभं न हि कुर्वीत कहिंचित् । पूर्वासु कृत्तिकासार्पज्येष्ठााभरणीषु च ॥ ७६ ॥
व्याख्या वाहनारंभमिति प्रथम हलेन भूम्युल्लेखनम् ॥ क्षेत्रारंभदिने किं भं ग्राह्यमित्यत्रार्थे हलचक्रमाह
हलचक्रेऽर्कमुक्ताद्भात्रयं नेष्टं शुभं त्रयम् । त्यजेन्नव शुभाय स्युः कृषो भानि त्रयोदश || ७७ ॥
व्याख्या-अर्कमुक्तादिति अर्केण भुक्त्वा मुक्ताद्भादारभ्याष्टाविंशतिभानि हलचके एवं स्थाप्यानि । तथाहि
" लागलं दण्डिका यपं योत्रद्वयसमन्वितम् । हलं न्यस्य लिखेद्भानि रविणो भुक्तधिष्ण्यतः ॥ १ ॥
Aho ! Shrutgyanam