________________
१२४
आरम्भ-सिद्धिः
देव ।
ततः
देत असुर
मनुज श्रेष्ठ
देव
_श्रेष्ठतमं सुर १ नर २ दनुज३ पलादाः ४, राक्षस R श्रेष्ठतम१ श्रेष्ठ र हीन३ हीनतमाः४ ।
देव । अन्ताः सर्वेऽप्यशुभा, श्रेष्ठतमं असुर
एवं शयनासनाद्येऽपि ॥५६॥ व्याख्या-यदि तत् क्षितदग्धादि देवांशे स्यात्तदाऽतिश्रेष्ठं, नरांशे तु श्रेष्ठ, असुरांशेऽधर्म, रक्षोऽशेऽत्यधर्म, तत्तदंशप्रान्तेषु तु सर्वेष्वपि अनिष्टमेव । यल्लल:" रुग् राक्षसांशेष्वथवाऽपि मृत्युः, पुंजन्म तेजश्च मनुष्यभागे । भागेऽमराणोमथ भोगवृद्धिः, प्रान्तेषु सर्वत्र भवत्यनिष्टम् ॥१॥"
भत्र राक्षसशब्देन असुरा अपि संगृहीताः, अत एव रुगथवा मृत्युरि. त्युक्तं असुरांशे रुग्, राक्षसांशे तु मृत्युरित्यर्थः । श्रीकल्पाख्यच्छेदग्रन्थवृत्तौ तु श्रीगुरुगच्छयोग्यवस्वैषणार्थनिर्गत साधूनामादौ तादृग्वस्त्रलाभे एवमेव नवभागकल्पनया निमित्तज्ञानमुक्तं । तथाहि" देवेसु उत्तमो लाभो माणसेसु अ मज्ज्ञिमो।
असुरेसु अ गेलन्नं (त) मरणं जाण रख्खसे ॥ १ ॥" एवं शयनेति शय्यादिष्वपि नवभागैरेवमेव फलमूह्यमित्यर्थः ॥ क्षिते दग्धेऽथ लिप्तेऽस्मिन् गोमयाञ्जनकर्दमैः । अभुक्त भूरि भुक्तेऽल्पं फलमेतच्छुभाशुभम् ॥ १.७ ।।
व्याख्या-अस्मिन्निति वस्त्रे परिधीयमाने इति शेषः । भूरीति यदि तद्वासोऽनाहतं तदा शुभाशुभं फलं बहु भुक्ते स्वल्पं । विशेषस्तु" छेदाकृतिः श्रिये स्याच्छत्रादिसमा गतापि रक्षोऽशे ।
काकोलूकादिसमो न देवभागाश्रिताऽपि पुनः ॥ १ ॥" सुलभं स्वं भवेन्न्यस्तं निखातं दत्तमेव वा । मृदुश्रुतित्रयादित्यलघुभेषु शुभेऽहनि ॥ ५८ ॥
व्याख्या-न्यस्तं स्थापनिकायां वाणिज्यव्यवसायादौ वा मुक्कं, निखातं मूम्यादौ, दत्तं व्याजेनार्पित, नष्टमज्ञानाद्गतं तदपि वाशब्देन संगृहीतं । शुभेऽहनीति कुजशनिवर्जवारे । विशेषस्तु
Aho! Shrutgyanam