________________
१२२
आरम्भ-सिद्धिः
-
उदयेऽथ नवांशे वा, राशीनां जलचारिणाम् । उदयस्थे च शीतांशी, वहिरहाय शाम्यति ॥४८॥
व्याख्या-उदयो लग्नं । जलचारिण: कर्कमकरकुंभमीनाः । ननु कुंभस्य जलचरस्वरूढिर्नास्ति, सत्यं, परमत्र जले चरतीति यौगिकग्युत्पत्तेविवक्षणात् कुंभोऽपि संगृहीतः । अह्नाय शीघ्रम् ॥
क्रूराः कुर्युर्धने निःस्वमाढ्य सन्तोऽन्नदं विधुः । हन्युश्छिद्रे ग्रहाः सर्वे लग्ने च ज्ञयमौ द्विजाः ॥४९॥
व्याख्या-अग्न्याधानलग्ने धनभवने यदि क्रूराः स्युस्तदा द्विजो निःस्व: स्यात्, सन्तः सौम्यास्तदा ‘आढ्यः' स्यात्, इन्दुश्चेत्तदाऽन्नदः, छिद्रेऽष्टमे चेत्कश्चिद्ग्रहस्तदा मृत्युः । अत्रायं विशेषोऽनुक्तोऽपि ज्ञेयः-"अष्टमस्थे चन्द्रे द्विज. परल्या मृत्युः, भौमे द्विजस्यैव, रविगुरुश निषु तु द्विजोऽसाध्यरोगातः स्यात्, बुधशुक्रयोस्त्वष्टमस्थयोर्न किञ्चित्फल मिति"। लग्ने च ज्ञयमाविति, लग्ने चका. रामचन्द्रे च, बुधश नियुते द्विजस्य मृत्युरिति रत्नमालाभाष्ये । लल्लस्त्वाह-'लग्ने विधौ वा बुधारियुक्ते, लोकाग्निना वह्निरुपैति सङ्गम् " ॥
जितैरस्तमितैर्नीचशत्रुक्षेत्रगतैरपि । सोमभौमसुराचार्यैराहिताग्निन नन्दति ॥ ५० ॥
व्याख्या---एषु सत्सु, आहितोऽग्निर्येन ॥ चन्द्रेऽर्के वा त्रिशत्रुस्थे लग्ने धनुषि वा गुरौ । मेषस्थेरवा१० स्त७ गेवाऽऽरे यज्वा स्यादात्तपावकः॥५१॥ ___ व्याख्या-आरे भौमे । एष्वात्तः पावको येन । यज्वेति याज्ञिकः ॥ इति विप्राद्याधिकारः संपूर्णः ॥ नववास सः प्रधानं वासवपौष्णाश्विनादितिद्वितये । करपञ्चकध्रुवेषु च बुधगुरुशुक्रषु परिधानम् ।। ५२॥ व्याख्या-नववाससः परिधान प्रधानं स्यादिति योगः । वासवेत्यादि, यदुक्तम्"नष्टप्राप्ति १ स्तदनु मरणं २ रह्निदाहो ३ ऽर्थसिद्धि ४,
श्वाखो ति ५ मति ६ रथ धनप्राप्ति ७ रागमश्च ८ । शोको मृत्यु२० नरपतिभयं११ संपदः१२ कर्मसिद्धि१३,
विद्यावाप्तिः १४ सदशन१५ मथो वल्लभत्वं जनानाम्१६ ॥ १ ॥
Aho! Shrutgyanam