________________
तृतीय विमश
-
चतुष्टयेऽर्कादिषु राजसेवी १,
स्याद्वैश्यवृत्तिः २ क्रमतोऽस्त्रवृत्तिः ३ । अध्यापकः४ कर्मसु षट्सु विद्वान्५,
विद्यार्थयुक्तो ६ ऽन्त्यजसेवकश्च ७ ॥ ४२ ॥ व्याख्या-चतुष्टये इति अर्के केन्द्रस्थे सत्युपनीतो राजसेवी स्यात् । चन्द्रे तु वैश्यवृत्तिः कृषिपाशुपाल्यादिकर इत्यादि । बहूनां केन्द्रस्थत्वे तु, यो बलाव्यस्तस्य फलं वाच्यं । एवमन्यत्राप्यूह्यम् ॥ लग्ने गुरौ त्रिकोणे सिते सितांशे विधौ च वेदज्ञः। भवति यमांशे गुरुसितलग्नेषु जडो विशीलश्च ॥ ४३ । ___ व्याख्या-सितांशे इति यत्र तत्र राशौ स्थितश्चन्द्रो यदि शुकस्यांशे स्थादित्यर्थः । एवमग्रेऽपि । यमांशे इति यमः शनिस्तस्यांशे इति चेद्गुरुशुक्रलग्नानि स्युः । विशीलश्चेति 'च' शब्दात्कृतघ्नश्च ॥ विधुगुरुशुः साधनगुणहीनः कुजान्वितैः क्रूरः । सबुधैर्बुधः सशौरैः स्यादुपनीतोऽलसो विगुणः ॥ ४४॥
व्याख्या-साकैरिति एषामयुतौ सत्यामित्यर्थः । शौरः शनिः । अयं श्लोको राज्याभिषेकलग्नेऽपि योज्यः ॥.
चन्द्रे षष्ठाष्टमे मृत्युमुखत्वमथवा बटोः । व्रतमोक्षेऽथ केशान्ते चौले चैवविधो विधिः ॥ ४५ ॥ __ व्याख्या-व्रतमोक्षो मौजीबन्धच्छोटनादिरूपः । केशान्तो मुण्डनं । चौलं चूलाकर्म । यथा कुलाचारं प्रथमे तृतीये वा वर्षे यरिक्रयते । एवंविध इति योऽनन्तरमेव सार्धाष्टश्लोकैरुक्तः ॥
वहेः परिग्रहं प्राहुः कृत्तिकारोहिणीमृगैः। . उत्तरात्रितयज्येष्ठापुष्यपौष्णद्विदैवतैः । ४६ । व्याख्या-परिग्रहः स्थापनम् ॥ केन्द्रोपचयधीधर्मेष्वन्दं ज्ञसुरार्चितः । शेषैस्त्रिषड्दशायस्थैरादध्याजातवेदसम्॥४७॥ व्याख्या-शेषैः कुजशुक्रमन्दैः ॥
Aho! Shrutgyanam