________________
तृतीय विमशः
११५
तु नाम्नि त्याज्य एव । ताराविरोधश्व जिनबिम्बाधिकारे प्रायो न विचार्यः । यदुक्तम्" योनि १ गणर राशिभेदा३ लभ्यं४ वर्गश्वनाडिवेधश्च६ । नूतनबिम्बविधाने पविधमेतद्विलोक्यं ज्ञेः ॥ १ ॥ "
तत्र यस्य धनिकस्य जिनस्येव जन्ममं ज्ञायते, तस्य जन्मभेन योनिग रायो नाडीवेधश्च विलोक्या: । च तु वर्गलभ्ये, यतो वर्गयोर्मिथः पञ्चमत्वं मिथो लभ्यदेयं च जिनस्येव तस्यापि प्रसिद्वेनैव नाम्ना विलोक्येते, सर्वत्रापीयं रीतिः । जन्मभापरिज्ञाने तु तस्य योन्याद्यपि सर्वं प्रसिद्धनामभेनैव विलोक्यं । तत्र पूर्वं तावजिनधनिकयोर्योनिगणवर्गाणां मिथो वैरं त्याज्यमेव । वैरसद्भावे. sपि वा धनिकसत्का योन्यादयो देवसत्केभ्यस्तेभ्यश्चेद्वलिष्टाः स्युस्तदा ग्राह्या अपि । अयं भावः - अल्पबलेन बलिष्टो नाभिभूयते इत्यभिप्रायेण धनिकस्य ओवादिर्बलिष्टो देवस्य चोन्दुरादिररूपबल इत्येतावता न दोषः । जातिवैराभावे च धनिक योनिवर्गयोरबलत्वेऽपि न विशिष्य दोषः, शास्त्रे योनिवर्गयोर्जातिवैरस्यैव वर्जनात्, लोकेऽपि च तथैवादरणात् । तथा यत्र देवराशितो धनिकरा - शिरासन्नो, धनिकराशितस्तु देवराशिर्दूरे तत्प्रीतिषडष्टमकादि ग्राह्यं, इतरत्तु न । तथा तादृकशुद्वापरालाभे तु तदपि क्वचिद् ग्राह्यं । देवराक्षसरूपं गणवैरमध्येवमेव, यतो लोके वरकन्यादेरपि शुद्धापराला भे देवराक्षसरूपं गणवैरमप्याद्रियमाणा दृश्यन्ते । शिष्यनामकरणे तु गुरुशिष्य योर्मिथस्ताराविरोधः शत्रुषडष्टमकादीनि च सर्वाणि त्याज्यानि । योनिविरोधोऽप्येवमेव । नाडीवेधसद्भावे त्वसौ न दुष्टः । उक्तञ्च हर्षप्रकाशे
66
दुब्बारस नवपंचम छक्कट्ठग ति पण सत्तमी तारा । अन्नुन्नं गुरुसी साणं नामकरणे विवजिज्ञा ॥ १ ॥ गुरुसीसाण करिजा नामं न विरुद्धजोणीए रिख्खे | जर हुज न तं रिख्खं आरूढं एगनाडीए ॥ २ ॥
97
गणवर्गविरोधौ तु त्याज्यावेव । लभ्यदेयं च मिथो विलोक्यं मिथो राशिमैग्याद्यभावे राशीनां वश्यत्वं च ग्राह्यं तद्भावे शत्रुषडष्टमकादीनामपि विशिष्टतरदौष्ट्यासंभवात् । पुत्रादिनामस्वपि सर्वं प्राय: शैक्षनामवज्ज्ञेयं । एवं च सति" जीवेन्द्वर्केषु बलिषु त्रिषु गोचरशुद्धितः ।
नामप्रथमवर्णस्य नृणां नाम विधीयते ॥ १॥ इति पूर्णभद्रः । अस्य श्लोकस्यान्वय एवं - नामाद्यवर्णस्य गोचरशुध्ध्या जीवेन्द्वर्केषु बलिषु सत्सु नृणां नाम विधीयते । अयं भावः - नामकर्तुराचार्यादेर्ये केsपि वर्णी
Aho ! Shrutgyanam
""
,