________________
आरम्भ-सिद्धिः
व्याख्या --- उभयोरति सर्वद्वयेषु द्वयोः संबन्धिनोर्नामाद्यारयोर्वर्गाङ्को स्थाप्यो, द्वयोश्चेदेको वर्गस्तदाऽऽद्याक्षराङ्कावेव ताभ्यां जातस्याङ्कस्याष्टभिर्भागे यच्छ्रेषं, तस्यार्धे जाता ये विशोपास्ते आद्याङ्कवता उत्तराङ्कवतो देयाः, तेन स्वाद्याल्लभ्याः । एवं क्रमोरक्रमाभ्यां यथासंभवं लभ्यदेयमानीय यथायोगं वालनीयं शेषं च देयं निर्णेयं । यदि तु मिथो लभ्यदेयं नायाति, तदा यस्यैव स्यात्तस्यैव निर्णेय । यथा कणादवल्मीकयोर्गुरुशिष्ययोर्नामवर्गाङ्कौ न्यस्तौ = ( क ) - २ (व) - ७ जाता सप्तविंशतिः, तस्या अष्टभिर्भागे शेषं त्रय: ८ ) २७ (३, अर्धिते. सार्धविशोषः कणादेन कल्मीकस्य देयः । तावेव विपरीतौ न्यस्तौ ५-२- जाता द्वासप्ततिः, अष्टभिर्भागे शेषाभावान्नास्ति किञ्चिद्वल्मीकेन गुरोर्देयं, किंतु गुरुणैव शिष्यस्य देयमस्तीत्येतद्योग निधान ग्रन्थोक्तमुदाहरणं । तथा आदिनाथश्रीदत्तयोवर्गाङ्को स्थापित १-८--जाता अष्टादश, अष्टभिर्भागे शेषं द्वौ, अर्धे एको विशोपो देवेन श्रीदत्तस्य देयः । तयोरेवोकमात्स्थापने ८१ जाता एकाशीतिः, अष्टभिभांगे शेष एकः, अर्धे - अर्धविशोपः श्रीदत्तेन देवस्य देयः । मिथो वालने शेषोऽर्धविशेोपः श्रीदत्तस्य देवेन देयो निर्णीतः । एवं सर्वत्र । लभ्यं च स्तोकं वर्यं, दातुं लातुं च सुशक्यत्वादिति नारचन्द्र टिप्पण्यां । अत्र गर्गोक्तः सङ्ग्रहश्लोकोऽयम्
" राशि १ ग्रहमैत्री२ गण ३ योनि ४ तारै५ कनाथता६ ऽवश्यम ७ । स्त्री दूर८ नाडियुति९ वर्ग १० लभ्य११ वर्ण१२ युजयो १३ द्वयेषूह्याः ॥ १॥” भस्यार्थः- द्वयेषु गुरुशिष्य दम्पतिभर्तृभृत्यादिरूपेषु एते ऊझाः । तन्त्र राइयोः स्वभावजा राशिमंत्री, तृतीयैकादश १ दशमचतुर्थी २ भयसप्तमेषु ३ | ग्रहमैत्री प्रीतिषडष्टमक १ प्रीतिद्विद्वादशक २ प्रीतिनवपञ्चमेषु ३ । गण १ योनि २ तारे ३ कनाथता ४ नाडीवेध ५ वर्ग ६ लभ्या ७ न्युक्तत्वात् स्फुटान्येव । वश्यत्वं तु वक्ष्यते । स्त्रीदूरेति वधूराशिर्वरराशितो दूरगः शुभः, वरराशिस्तु वधूराशित आसन्नः शुभ इत्यर्थः । वर्णेति " मीनाद्याश्चत्वारश्वत्वारत्रिर्द्विजादिवर्णा " इति सारावल्यां । ततश्च --
"यत्र वर्णाधिका नारी तत्र भर्ता न जीवति ।
११४.
यदि जीवति भर्ता स्यात्तदा पुत्रो न जीवति ॥ १ ॥ " इति महादेवः । युजिः प्रागुक्ता " पूर्वार्धयोगिषूढ स्त्रीणामतिवल्लभो भवेद्धर्ता" इत्यादिना । विशेषस्तु मुनीनां किल जिनबिम्बकारयितुस्तद्वारणागतिज्ञाने शैक्षस्यनामकरणे च भयोन्यादिभिर्विशिष्योपयोगः । तत्र शैक्षस्य नाम्नि नाडीवेधो वर्यः, जिनस्य
Aho! Shrutgyanam
2