________________
तृतीय विमर्श
सर्वेषां चैषां मैत्रीप्रकाराणां नाडीवेधो बकिछः । यदुक्तम्"सदा नाशयत्येकनाडीसमाजो, भकूटादिकान् सर्वमेदान् प्रशस्तान्"।
अथ तारामैत्रीमाहद्वयेषु गुरुशिष्यादेः प्रीतिहेतोः परस्परम् । त्रिपञ्चसप्तमी तारां सर्वत्र परिवर्जयेत् ॥ २५ ॥
व्याख्या-परस्परमित्युभयतो योज्यं । परस्परं प्रीतिहेतोः, परस्परं त्रिप. सप्तमी तारा त्याज्येति । कोऽर्थः ? यदि छेकस्यापि तारा त्रिपञ्चसप्तमी स्यात्तदा न तयोस्तादृशी प्रीतिः स्यादिति । त्रिपञ्चति पूर्वोक्तेन ताराणां नवक. त्रयकल्पनविधिना गुरुशिष्यादितारासु त्रिपञ्चसप्तमत्वं भाव्यं । विशिष्य च गुरुवरप्रभुप्रभृतीनां तारा त्रिपञ्चसप्तमी विलोक्यते । यदुक्तम् –“ भीरुपादचल
पञ्च ५ तृतीया ३ शोकवैरविपदे वरताराः" । सर्वत्रेति सर्वेषु द्वयेष्वित्यत्र योज्यं, प्रधानं (ना) चेयं तारमैत्री । यदुक्तम्:__ " पुस्खोराशीशयोमैत्र्यामेकेशत्वे च वश्यमे ।
पडष्टमादिष्वपि स्यात्तारामैन्या करग्रहः ॥ १ ॥" इति दैवज्ञवल्लमे ॥ वर्गमैत्रीमाहचत्वारोऽकचटा वर्गाः क्रमात्तपयशास्तथा। यत्नतो वजनीयाः स्युरितरेतरपञ्चमाः ।। २६ ॥
व्याख्या-अकारादयः स्वराः अवर्गः । ततः कवर्गायाः पञ्च वर्गाः ६ । अन्तस्था यवर्गः ७ । शषसहाः शवर्गः ८ इत्यष्टौ वर्गाः । इतरेति द्वयोः संबन्धिनो माद्यवर्णवर्गों यदि मिथः पञ्चमौ स्यातां, तदा तदीशयोर्जातिवैरस. नावात्याज्यौ । वर्गेशाश्चैवं हर्षप्रकाशे" वैनतेयौ१ तु२ सिंह३ श्वा४ ऽहि५ मूषक६ मृगो७ रणाः८ । क्रमादकचटादीनां स्वामिनोऽमी स्मृता बुधैः ॥ १॥"
उरणो मेषः । एषां पञ्चमेन पञ्चमेन सह जातिवैरं, वृकसजातीयत्वात् शुनो मेषेण सह वैरं । विशेषस्तु-योनि १ गण २ राशि ३ तारा शुद्धि ४ नाडिवेधा ५ जन्ममे परिज्ञायमाने जन्मभेनैव विलोक्याः, अन्यथा तु नाममेन । वर्गमैत्री १ लभ्यदेयज्ञाने २ तु प्रसिद्धनाम्नैव विलोक्ये ॥
___वर्गवक्तव्यतासंबद्धं मिथो लभ्यदेयज्ञानमाहनामादिवर्गाङ्कमथैकवर्ग, वर्णाङ्कमेव क्रमतोऽक्रमाच्च। . न्यस्योभयोरष्टहृतावशिष्टे,ऽर्धितेविशोपाःप्रथमेन देया॥२७॥
Aho ! Shrutgyanam