________________
१०६
आरम्भ-सिद्धिः
उडूनां योन्योऽश्व१ द्विप२ पशु भुजङ्गा४ हि५ शुनको६स्व ७ जा ८ मार्जारा ९ खुदय१०-११ वृष १२ मह १३
व्याघ्र १४ महिषाः १५ । तथा व्या!१६णै१७ण १८श्व१९कपि२०नकुलद्वन्द्व२१.२२कपयो२३ हरि२४ाजी२५दन्तावलरिपु२६रऽजः २७कुञ्जर२८इति ॥१८॥
व्याख्या--योन्य इति उत्पत्तिस्थानानि, एताश्च गुरुशिष्यदम्पत्यादियोगार्थ पूर्वाचार्यैः कल्पिता एव, न तु पारमार्थिक्य इति रत्नमालाभाष्ये । पशुरजः । ओतुर्मार्जारः । द्वयेति मघापूर्वीफल्गुन्योराखुः । एवमग्रेऽपि ॥ योनिवैरमाहश्वेणं हरीभमहिबभ्र पशुप्लवङ्गं,
गोव्याघ्रमश्वमहमोतुकमूषकं च । लोकात्तथाऽन्यदपि दम्पतिभर्तृभृत्य
__ योगेषु वैरमिह वज्यमुदाहरन्ति ॥ १९॥
व्याख्या-श्वा च एणश्चेति नित्यवरस्येत्यनेनान्यमते वैरे वाच्ये समाहारद्वन्द्व श्वैणं, यत्रैकस्य जन्मभस्य श्वा योनिरन्यस्य च मृगयोनिः तयोः श्वैणं वैरमित्यर्थः । प्लवङ्गो मर्कटः । अन्यदपीति व्याघेणं श्वमार्जारमित्यादि । भर्तृभृत्ये. स्युपलक्षणत्वाद् गुरुशिष्यादियोगेऽपि । विशेषस्तु
" विहाय जन्मभं कार्ये नामभं न प्रमाणयेत् ।
जन्मभस्यापरिज्ञाने नामभस्य प्रमाणता ॥ १ ॥ " तथा" द्वयोर्जन्मभयोमलो द्वयोर्नामभयोस्तथा ।
जन्मनामभयोर्मेलो न कर्तव्यः कदाचन ॥२॥"
अस्यार्थः-द्वयोर्जन्मभज्ञाने नयोरेव मेलश्चिन्त्यते । एकस्यापि जन्मभापरिज्ञाने तु द्वयो भयोरेव चिन्त्यः, परमेकस्य जन्मभमन्यस्य च नामभं एवं न मे लोविलोक्यः । एवमेव गणराश्यादिसर्वप्रकारेषु ज्ञेयं । एतौ व्यवहारप्र. काशे ॥ सप्तविंशतेर्भानां गणानाहदिव्यो गणः किल पुनर्वसुपुष्यहस्त
स्वात्यश्विनीश्रवणपोष्णमृगानुराधाः । स्यान्मानुषस्तु भरणीकमलासनः
पूर्वोत्तरात्रितयशंकरदेवतानि ॥ २० ॥
Aho! Shrutgyanam