________________
१०४
आरम्भ-सिद्धिः
%
उपकुल्यानि भरणी ब्राह्म पूर्वात्रयं करः ।
ऐन्द्रमादित्यमश्लेषा वायव्यं पौष्णवैष्णवे ॥ १२ ॥ व्याख्या-वैष्णवं श्रवणम् ॥ पूर्वेषु जाता दातारः संग्रामे स्थायिनां जयः।
अन्येषु त्वन्यसेवार्ता यायिनां च सदा जयः । १३॥ व्याख्या--स्थायिनामिति एषु भेषु यदि युद्धं स्यात्तदा स्वस्थानस्य राहो जयः स्यात्, चटित्वाऽऽयातस्य तु राज्ञः पराजयः स्यात् । अन्येषूपकुल्येषु जाता भन्यसेवकाः स्युः, युद्धे च यायिनां जयः, नागराणां पराजयः, येन प्रथमं यात्रोद्यमः कृतः स यायी, येन पश्चात् स नागरः ॥
कुलोपकुलभान्यार्दाभिजिन्मैत्राणि वारुणम् । फलन्त्येतानि पूर्वोक्तद्वयसाधारणं फलम् ॥ १४ ॥ व्याख्या- साधारणमिति, जाता दातारोऽपि स्युरन्यसेवकाश्च, युद्धे चसन्धिः स्यात् । उक्तं च--" कुलोपकुलभे सन्धिरिति " ॥ वाराणां कुल्यादित्वमाह
गुर्वार्कीन्दवः कुल्या उपकुल्यः कुजः सितः। तमश्चाथ बुधो मिश्रस्तत्र नक्षत्रवत्फलम् ॥ १५॥ व्याख्या-तमो राहुः । अयं वारत्वाभावेऽपि ग्रहप्रसङ्गादूचे । मिश्रः कुलोपकुलः । केचित्तिथिवारवेलाराशियोगेन कुल्यत्वमाहुः, तथाहि
" सूर्योदये कुजस्याह्नि नन्दा वृश्चिकमेषयोः १ ।
कुलीरयुग्मकन्यानां भद्रायामे बुधाहनि२ ॥ १ ॥" अन्न यामे इति प्रहरदिनचटनसमये इत्यर्थः ।
"चापसिंहघटानां च मध्याह्ने वाक्पती जया३ ।
वणिग्वृषभयो रिक्ता त्रियामान्ते भृगोदिने४ ॥ २॥" त्रियामान्ते इति तृतीयप्रहरप्रान्ते ।
" सूर्यास्ते शनिवारे तु पूर्णा स्यान्नक्रमीनयोः ५।।
कुलजास्तिथयो वारे वेलायां राशिषु क्रमात् ॥ ३ ॥" एभियोगैर्जाताः कुल्यास्तत एव चोत्तमाः स्युरित्याशयः ॥ रविनरमाह
Aho! Shrutgyanam