________________
द्वितीम-विमर्शः
व्याख्या-आदिपदाद्वापीकूपनटाकपरिखादिखनन निधानोदारक्षेपातविवरप्रवेशधातुकर्मनृपविग्रहगणितारंभादीनि ॥ तिर्यमुखानि चादित्यं मैत्रं ज्येष्ठा करत्रयम् । अश्विनीचान्द्रपौष्णानि कृषियात्रादिसिद्धये ॥३॥
व्याख्या-आदेरश्वराजगवादितिर्यग्दमनवाणिज्यनृपसन्धिप्रवहणनौकर्मशकटरथयंत्रप्रवाहादीनि ॥ ऊ स्यान्युत्तराः पुष्यो रोहिणी श्रवणत्रयम् । आर्द्रा च स्युजच्छत्राभिषेकतरुकर्मसु ॥ ४ ॥
व्याख्या-कर्मस्विति बहुवचनाद् दुर्गप्राकारतोरणोच्छ्यारामविधिपट्टामिकादिष्वपि ॥ सामान्येन कार्यमुक्त्वाऽथ स्वस्वस्थाने नामप्रकाशनपूर्वमुपयोगिन कियतोऽपि कार्य विशेषानाहऋत्वाद्यधुचतुष्टयवर्जी विषमासु रात्रिषु न योषाम् । सेवेत पुत्रकामः पौष्णमघामूलभेष्वपि च ॥५॥ __व्याख्या-वीति । उक्त विवेकविलासे-- " निशाः षोडश नारीणामृतुः स्यात्तासु चादिमाः ।।
त्तिस्रः सर्वैरपि त्याज्याः प्रोक्ता तुर्यापि केनचित ॥१॥" यत:" चतुर्थ्यां जायते पुत्रः स्वल्पायुर्गुणवर्जितः । विद्याचारपरिभ्रष्टो दरिद्रः क्लेशभाजनम् ॥ २॥"
विषमास्विति । यतः“ समायां निशि पुत्रः स्याद्विषमायां च पुत्रिका ।"
न योषामिति निषेधमुखेनोक्तिर्वचनगुप्तिसत्यापनार्थ । एवमग्रेऽपि निषेधमुखोक्तौ विचार्य पौष्णेति, उक्तञ्च“ गर्भाधाने मघा वा रेवत्यपि यतोऽनयोः । पुत्रजन्म दिने मूलाश्लेषे स्तस्ते च दुःखदे ॥ १॥"
अन मूलाश्लेषे स्त इति “ आधानादृशमे जन्मेति " वचनात् । " रत्नानीव प्रशस्तेऽह्नि जाताः स्युः सूनवः शुभाः । अतो मूलमपि त्याज्यं गर्भाधाने शुभार्थिभिः ॥ २ ॥"
Aho! Shrutgyanam