________________
द्वितीय विमर्श
इति लल्लः अस्यार्थ:-शुक्लपक्षस्य प्रतिपदि लगन्त्यां यदि चन्द्रः शुभस्तदा, तस्मिन् पक्षेऽपि चन्द्रः शुभ एव, यदि चाशुभस्तदा अशुभः । कृष्णपक्षस्य तु प्रतिपदि लगत्यां यदि चन्द्रः शुभस्तदा तस्मिन् पक्षेऽपि चन्द्रोऽशुभ एव, यदि स्वशुभस्तदा चन्द्रस्तस्मिन् पक्षेऽपि शुभ एवेति । तथा-" यादृशेन ग्रहेणेन्दोयुतिः स्यात्तादृशो हि सः इति दैवज्ञवल्लभे । तथा
"
" अशुभोsपि शुभश्चन्द्रः सौम्यमित्रगृहांशके । स्थितोऽथवाधिमित्रेण बलिष्ठेन विलोकितः ॥ १ ॥ इति दैवज्ञवल्लभे । अथ सर्वप्रहसाधारणमुच्यते
""
असत्फलोsपि यः सौम्यैष्टो यः सत्फलोऽपि वा । क्रूरेण दृष्टोऽरिणा वा स न किञ्चित्फलप्रदः ॥ १ ॥ इति दैवज्ञ | तथा - " नीचेऽस्तेऽरिगृहेवापि निष्फलो ग्रहगोचरः । इति लल्लः ।
चन्द्रो जन्मत्रिषट्सप्तदशैकादशगः शुभः । द्विपञ्चनवमोऽप्येवं शुक्लपक्षे बली यदि ॥ ४५ ॥ व्याख्या जन्मेति । विशेषस्तु -
66
८३
Aho! Shrutgyanam
""
"
66 यात्रा १ युद्ध २ विवाहेषु ३ जन्मेन्दो रोगसंभवे ४ । क्रमेण तस्करा १ भङ्गो २ वैधव्यं ३ मरणं ४ भवेत् ॥ १ ॥ इति नारचन्द्रटिप्पण्यां । ननु चन्द्रगोचरण्ये प्रागप्युक्ते पुनरुक्तमिदं, सत्यं, परमिन्दोः प्राधान्यज्ञप्त्यर्थत्वाददोषः । प्राधान्यं कथमिति चेत् उच्यते - यथा मनस उपयोगे सत्येव सर्वाण्यपीन्द्रियाणि स्वस्वविषयग्रहणक्षमाणि, नापरथा, तथा चन्द्रे शुभे सत्येव शेषग्रहाः शुभं फलं ददति, नापस्था । " चन्द्रे च शुभे सति शेषग्रहाः शुभफलदा एव प्रायो, न स्वशुभफलदा " इति व्यवहा - प्रकाशे । हर्षप्रकाशेऽप्युक्तं - " चंदस्सेव बलाबलमासज्ज गहा कुणंति सुहमसुहं " इति । द्विपञ्चेत्यादि विशेषविध्यारोपणार्थत्वाच्च नात्र पुनरुक्तदोषः । एवमिति शुभ इत्यर्थः । शुक्लपक्षे इति प्रवर्धमान इति भावः, न तु कृष्णपक्षे, श्रीयमाणत्वात् । बली यदीति अनेन शुक्लपक्षेऽपि कृशः सन् शशी द्विपञ्चननवम ग्राह्यः । कृष्णपक्षे च पुष्टोऽपि सन् द्विप्रञ्चनवमो न ग्राह्य इत्युक्तं, तदयं भावः - यादृशं द्विपञ्चनवमो गुरुः सदा शुभं ( फलं ) दत्ते, तादृशं वर्धमानतनुः शुक्लपक्षे पुष्टश्चन्द्रोऽपि द्विपञ्चनवमः शुभं दत्ते इति रत्नभाष्ये ॥ बली यदीत्युक्तत्वादिन्दोर्बलाबलमाह