________________
आरम्भ-सिद्धिः
षष्ठदशमसप्तम वर्जसर्वस्थानेषु गोचरेणागतः शुक्रः शुभः । पूर्णभद्रेण त्वष्टममपि वर्जितं । ग्रहणे इति अर्केन्द्वोर्ग्रहणदिने राहुर्जन्मराशित उपचयस्थः शुभः । अन्येषामिति ते प्राहुः आद्यं विना चन्द्रवद्गाहुः उपचयेषु स्मरे च शुभ इत्यर्थः। ग्रहणे इति कयनेनान्यदा राहुगोचरो न गण्यते इत्यसूचि । नक्षत्रगोचरमाश्रित्यान्यदाऽपि गण्यते इति ज्योतिषसारे । विशेषस्तु जन्मलग्नादप्येषु स्थानेष्वेव शुभा इति रत्नभाष्ये । जन्मराशितस्तु शुभा एव । गोचरफलानि चैवम्"स्थानभ्रंश१ भय२ श्री३ परिभव४ दैन्या५ रिहति६ पथा७ गार्तीः८ । शान्तिक्षय९ सिद्धि१० धन११ व्ययाँ१२ श्च जन्मादिगो रविः कुरुते॥१॥ तुष्ट्या१ घिर धना३ ज्य४ र्थभ्रंश५ श्री सार्थयुवति७ मृति८ भीतीः९। सुख १० जय ११ सरुगधनक्षय १२ मिन्दुर्जन्मादिगो दत्ते ॥ २ ॥ रुग्१ धननाश२ धना३ रिभ्य४ र्थक्षय५ धन६ शुग७ घाता८ः९ । शुग १० लाभ ११ विविधदुःखानि १२ दिशति जन्मादिगो वक्रः ॥३॥ बन्धा१ १२ वधा३ र्थ४ हृति५ स्थान६ वपुर्बाध७ धन८ महापीडा९ । सौख्या १० र्थ ११ वित्तनाशाः १२ स्युझे जन्मादिगे क्रमशः ॥ ४॥ रोगा? र्थ२ क्लेश३ व्यय४ सुख५ भी६ नृपमान७ धनागम८ श्रीदः९ । अप्रीति १० लाभ ११ हृदुःखदश्च १२ जन्मादिगो जीवः ॥ ५ ॥ अरिनाशार्थ२ सुख३ श्री४ सुता५ रिवृद्धी(खि)६ शुगअर्थ८ वाणि९। असुख। १० य ११ लाभ १२ मुशना सनापि जन्मादिगस्तनुते ॥ ६ ॥ अस्थान१ धनगमा२ र्था ३ रिवृद्धि४ सुतनाश५ लाभ६ दुःखभरान् । पीडाट थंगमार ति१० श्री११ दुःखानि१२ शनिस्तनोति जन्मादौ"॥७॥
इदमर्थतो वराहसंहितायां । " गहणे तमरासीओ नियरासी ति चउ अछिगार सुहा । पण नव दहंत१२ मज्झिम छ सत्त इग दुन्नि अइअहमा" ॥ १ ॥ इति ज्योतिषसारे । तथा
" यादृशेन शशाङ्केन सङ्क्रान्तिर्जायते रवेः ।।
तन्मासि तादृशं प्राहुः शुभाशुभफलं नृणाम् " ॥ १ ॥ एतेनार्को द्वादशाष्टमाघशुभस्थानस्थोऽपि गोचरेण ताराबलेन शुभावस्थादिना च, शुभे चन्द्रबले सति जातसक्रमः शुभ एवेति रत्नभाष्ये । तथा--
" सितपक्षादौ चन्द्रे शुभे शुभः पक्षकोऽशुभे त्वशुभः । बहुले गोचरशुभदे न शुभः पक्षेऽशुमे तु शुभः " ॥ १ ॥
Aho! Shrutgyanam