________________
द्वितीय विमर्श
ग्र
"
"
स्याद्गोचरेणात्र शुभोऽपि विद्धः खेटोऽन्यखेदैरशुभः क्रमेण । दुष्टोऽपि चेष्टश्च स वामवेधान्मिथो न वेधः पितृपुत्रयोस्तु४०
व्याख्या - गोचरेण शुभोऽपि ग्रहो वक्ष्यमाणक्रमेणान्यग्रहैर्विद्धः सन्नशुभः स्यात् । दुष्टोऽपीत्यादि अपिचेत्यखंडमव्ययसमुदाय: मेणेत्येतदत्रापि योज्यं गोचरेण दुष्टोऽपि च ग्रहः क्रमेण वामवेधादिष्टः स्यात् । इह किल तृतीयादिस्थानस्थस्य रवेर्नवमादिस्थानस्थग्रहैयों वक्ष्यते स वेधः । यस्तु नवमादिस्थानस्थार्कस्य तृतीया दिस्थानस्थग्रहैः स्यात् स वामवेधः । कोऽर्थः ? तृतीयादिस्थानस्थोऽर्कः शुभः चेन्नवमादिस्थानस्थैरन्यग्रहैर्न विध्येत । नवमादिस्थानस्थश्वाशुभोऽप्यर्कः शुभो यदि तृतीयादिस्थानस्थैः परैर्विध्येत । एवमन्येऽपि भाव्याः । उक्तं च यतिवल्लभेभिर्वधैर्विद्धा विफलाः स्युर्गोचरे ग्रहाः सर्वे ।
विपरीतवेधविद्धाः पापा अपि सौम्यतां यान्ति " ॥ १ ॥
।
"यत्रस्थेन ग्रहेणेष्टग्रहो विध्यते तन्त्रस्थस्यैव स्वस्य फलं शुभमशुभं वा स ददातीति तत्रं" इति रत्नभाष्ये । ये तु गोचरफलमेत्र प्रमाणयन्तो वेधविधौ माध्यस्थ्यमाद्रियन्ते, तन्मतं न बहुसंमतं । यदाह सारङ्ग:"यत्र गोचरफलप्रमाणता, तत्र वेधफलमिष्यते न वा । प्रायशो न बहुसंमतं त्विदं, स्थूलमार्गफलदो हि गोचरः " ॥ १ ॥ यतिवल्लभेऽप्युक्तं-
७९
" अज्ञात्वा वेधविधिं ग्रहगोचरपाकजातगुणदोषम् ।
ये निर्दिशन्ति मूढास्तेषां विफलाः सदादेशाः ॥ १ ॥ वेधौ च वामोsवामश्च जन्मराशित एव गण्यौ । मिथो न वेध इति रविशनी चन्द्रबुधौ च पितापुत्रौ । अत्र पितृपुत्रयोरिति पाठश्चिन्त्यः, ऋत आवभवनात्, तेन "मिथो न पित्रङ्गजयोस्तु वेधः" इति पाठोऽस्तु ॥ वेधप्रकारमेवाहवेधस्त्रिषड् गगनला भगतस्य ३ -६-१०-११ भानोः,
खेदैः क्रमेण नवमान्त्यसुखात्मज ९-१२-४-५ स्थैः । इन्दोस्तनौ त्रिरिपुमन्मथ खायगस्य १-३-६-७-१०-११, धर्मरिष्पधनबन्धुमृतौ ५-९-१२-२-४-८ स्थितैश्च ॥ ४१ ॥ स्यान्मङ्गलस्य सहजद्विषदायगस्य ३ - ६--११, सौरेस्तथा व्ययतपः सुखगैश्च १२-९-८ वेधः । चान्द्रेः स्वबन्धुरिपुमृत्युखलाभगस्य २-४-६-८-१०-११,
Aho! Shrutgyanam
""