________________
आरम्भ-सिद्धिः
सत्कालसुहृदो द्विर त्रिसुख४ लाभा११न्त्य१रकर्म१०गा:३८
व्याख्या-परेऽन्दुभौमाः । शत्रुमित्रमध्यस्थानां स्थापना यथा
ग्रहाणां | रवि | चन्द्र । मंगल बुध | गुरु | शुक्र | शनि शत्रवः शुक्र-शनि - बुध | चन्द्र | वु-शु र-चं र चम मित्राणि | च-म-गु र-बु |र-च-गु! र-शुर-च-म बु-श बु-शु मध्यस्थाः बु मं-गु-शु-श| शु-श | मं-गु-श| श | मं-गू | गु |
तत्कालेत्यादि जन्मनि पृच्छादिलग्ने वा यत्र स्थाने कश्चिदेको ग्रहोऽस्ति, तस्माद् द्वितीयादिस्थाने योऽन्यो ग्रहः स्यात्स तत्काले द्विव्यादिस्थानस्थितिकालावधीत्यर्थः तस्य मैत्री स्यात् । इयं तात्कालिकी मैत्रीत्युच्यते ॥ अस्याः फलमाह
त्रिमध्यारयो येऽत्र निसर्गेणोदिताः क्रमात् ।
अधिमित्रसुहृन्मध्यास्ते स्युस्तकालमैत्र्यतः ॥ ३९ ॥ व्याख्या-अधिकं मित्रमधिमित्रं, अर्थादेव च मित्रस्थानेभ्योऽन्यानि प्रथमपञ्चमषष्टसप्तमाष्टमनवमस्थानानि तत्कालवैरस्थानानि । तत्फलं चैवं
" येऽत्रारिमध्यमित्राणि निसर्गेणोदिताः क्रमात् ।
अधिशत्रुद्विषन्मध्यास्ते स्युस्तत्कालवैरतः " ॥ १ ॥ भुवनदीपके तु ग्रहाणां मित्रशत्रुस्वरूपं पक्षद्वयमेवोक्तं, तथाहि" रवीन्दूमौमगुरवो ज्ञशुक्रशनिराहवः ।। स्वस्मिन् मित्राणि चत्वारि परस्मिन् शत्रवः स्मृताः ” ॥१॥
राहुरव्योः परं वैरं गुरुभार्गवयोरपि ।
हिमांशुबुधयोर्वैरं विवस्वन्मन्दयोरपि ॥ २ ॥ अतिमैत्री राहुशन्योरिन्दुगुर्वोः कुजार्कयोः। सितज्ञयोः” इति । एवं च ग्रहाणां मित्रात्मगृहाण्युच्चानि विशेषाद्धर्षदीप्तिस्थानानि, यथा रवेर्मेष: सुहृद्गृहमुचं च, बुधस्य कन्यागृहमुच्च चेत्यादि । अरिगृहाणि तूच्चान्यपि प्रभादायीनि स्युः परं नान्तःसुखदानि, यथा शुक्रस्य मीनः । नीचान्यपि च सुहृदगृहाणि किञ्चित्प्रभादायीनि यथेन्दोवृश्चिकः । रिपुगृहाणि तु नीचानि नानाऽनर्थान् प्रभाहानि च कुर्युरिति भुवनदीपकवृत्तौ ॥ अथ यवनाऽचार्योक्तं राशिस्थग्रहाणां मिथो वेधमाह
Aho! Shrutgyanam