________________
तद्रूपं न स्वात्मनः पृथक् ॥ आत्मा स्यादन्यथाऽनात्मा ज्ञानाद्यपि ज जवेत् ॥ ११ ॥ चैतन्यपरसामान्यात् सर्वेषामेकतात्मनाम् ॥ निश्चिता कर्मजनितो भेदः पुनरुपप्लवः ॥ १२ ॥ मन्यते व्यवहारस्तु भूतग्रामादिजेदतः ॥ जन्मादेश्च व्यवस्थातो मिथो नानात्वमात्मनाम् ॥ १३ ॥ न चैतन्निश्चये युक्तं भूतग्रामो यतोऽखिलः ॥ नामकर्मप्रकृतिजः स्वभावो नात्मनः पुनः ॥ १४ ॥ जन्मादिकोऽपि नियतः परिणामो हि कर्मणाम् ॥ न च कर्मकृतो नेदः स्यादात्मन्यविकारिणि ॥ १५ ॥ आरोप्य केवलं कर्म कृतां विकृतिमात्मनि ॥ भ्रमंति भ्रष्टविज्ञाना जीमे संसारसागरे ॥ १६ ॥ उपाधिभेदजं नेदं वेत्त्यज्ञः स्फटिके यथा ॥ तथा कर्मकृतं नेदमात्मन्येवानिमन्यते ॥ १७ ॥ उपाधिकर्मजो नास्ति व्यवहारस्त्वकर्मणः ॥ इत्यागमवचो लुप्तमात्मवैरूप्यवादिना ॥ १८ ॥ एकक्षेत्र स्थितोऽप्येति नात्मा कर्मगुणान्वयम् ॥ तथाजन्यस्वभावत्वानुको धर्मास्ति - कायवत् ॥ १७ ॥ यथा तैमिरिकश्चंमप्येकं मन्यते द्विधा ॥ श्रनिश्चयकृतोन्मादस्तथात्मानमनेकधा ॥ २० ॥ यथानुभूयते ह्येकं स्वरूपा स्तित्वमन्वयात् ॥ सादृश्यास्तित्वमप्येकमविरुद्धं तथात्मनाम् ॥ २१ ॥ सदसद्दाद पिशुनात् संगोप्य व्यवहारतः ॥ दर्शयत्येकतारलं सतां शुनयः सुहृत् ॥ २२ ॥ नृनारकादिपर्यायैरप्युत्पन्नविनश्वरैः ॥ निन्नैर्जहाति नैकत्वमात्मव्यं सदान्वयि ॥ २३ ॥ यथैकं हेम केयूरकुंमलादिषु वर्त्तते ॥ नृनारकादिजावेषु तथात्मैको निरंजनः ॥ २४ ॥ कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः ॥ कर्म क्रियास्वनावं यदात्मात्वजस्वनाववान् ॥ २५ ॥ नाणूनां कर्मणो वासौ जवसर्गः स्वजावजः॥ एकैकविरहेऽनावान्न च तत्त्वांतरं स्थितम् ॥ २६ ॥ श्वेतप्रव्यकृतं श्वैत्यं नित्तिनागे यथा घ्योः ॥ नात्यनंतर्जवन्यं प्रपं चोऽपि तथेदयताम् ॥ २७ ॥ यथा स्वमावबुद्धोऽर्थो विबुछेन न दृश्यते ॥ व्यवहारमतः सर्गो ज्ञानिना न तथेक्ष्यते ॥ २८ ॥