________________
गेन चित्तशुद्धिमुपेयुषां ॥ निरवद्यप्रवृत्तीनां ज्ञानयोगौचिती ततः ॥ २५ ॥ श्रतएव हि सुश्राचचरणस्पर्शनोत्तरं ॥ मुःष्पाल| श्रमणाचारग्रहणं विहितं जिनैः ॥ २६ ॥ एकोद्देशेन संवृत्तं कर्म यत्पौर्वजृमिकं ॥ दोषोम्छेदकरं तत्स्याद् ज्ञानयोगप्रवृद्धये ॥ २७ ॥ ज्ञानिनां तु यत्कर्म न ततश्चित्तशोधनं ॥ यागादेरतथाजावान् म्लेच्छादिकृतकर्मवत् ॥ २८ ॥ न च तत्कर्मयो|गेऽपि फल संकटपवर्जनात् ॥ संन्यासो ब्रह्मबोधाघा सावद्यत्वात्स्वरूपतः ॥ २९ ॥ नो चेदित्थं जवेनुद्धिगहिंसादेरपि | स्फुटा || श्येनाघा वेदविहिताद्विशेषानुपलक्षणात् ॥३०॥ सावद्यकर्म नो तस्मादादेयं बुद्धिविप्लवात् ॥ कर्मोदयागते त्वस्मि | संकपादबंधनम् ॥ ३१ ॥ कर्माप्याचरतो ज्ञातुर्मुकिजावो न दीयते । तत्र संकल्पजो बंधो गीयते यत्परैरपि ॥ ३२ ॥ | कर्मण्यकर्म य: पश्येदकर्मणि च कर्म्म यः ॥ स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्म्मकृत् ॥ ३३ ॥ कर्मण्यकर्म वाऽकर्म | कर्म्मण्यस्मिन् श्रपि ॥ नोने वा जंगवैचित्र्यादकर्मण्यपि नो मते ||३४|| कर्म नैष्कर्म्य वैषम्यमुदासीनो विभावयन् ॥ ज्ञानी न लिप्यते जोगैः पद्मपत्रमिवांजसा ॥ ३५ ॥ पापाकरणमात्राद्धि न मौनं विचिकित्सया || छानन्यपरमात्साम्यात् ज्ञानयोगी जवेन्मुनिः ॥ ३६ ॥ विषयेषु न रागी वा घेषी वा मौनमश्नुते ॥ समं रूपं विदंस्तेषु ज्ञानयोगी न लिप्यते ॥ ३७ ॥ | सतत्त्वचिंतया यस्याजिसमन्वागता इमे ॥ श्रात्मवान् ज्ञानवान्वेद धर्मब्रह्ममयो हि सः ॥ ३८ ॥ वैषम्यबीजमज्ञानं निनंति | ज्ञानयोगिनः ॥ विषयांस्ते परिज्ञाय लोकं जानंति तत्त्वतः ॥ ३५॥ इतश्चापूर्व विज्ञानाच्चिदानंद विनोदिनः ॥ ज्योतिष्मंतो जवं | त्येते ज्ञाननिर्धूतकक्ष्मषाः ||४०|| तेजोलेश्याविवृद्धिर्या पर्याय क्रमवृद्धितः ॥ जापिता जगवत्यादौ सेवंभूतस्य युज्यते ॥ ६१ ॥ विषमेऽपि समेही यः स ज्ञानी स च पंक्तिः ॥ जीवन्मुक्तः स्थिरं ब्रह्म तथाचोक्तं परैरपि ॥४२॥ विद्याविनयसंपत्रे ब्राह्मणे