SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ १४ ॥ च किल्ला नामुष्मिक्यः प्रवृत्तयः ॥ परबंधन हेतोः कः स्वात्मानमवसादयेत् ॥ २५ ॥ सिद्धिः स्थाण्वा दिवश्यक्ता संशया| देव चात्मनः ॥ कासौ खरविषाणादौ व्यस्तार्थविषयः पुनः ॥ २६ ॥ श्रजीव इति शब्दश्च जीवसत्ता नियंत्रितः ॥ असतो न निषेधो पत्संयोगादिनिषेधनात् ॥ २७ ॥ संयोगः समवायश्च सामान्यं च विशिष्टता ॥ निषिध्यते पदार्थानां त एव न तु सर्वथा ॥ २० ॥ शुद्धं व्युत्पत्तिमजीवपदं सार्थ घटादिवत् ॥ तदर्थश्च शरीरं नो पर्यायपदभेदतः ॥ २९ ॥ श्रात्मव्यवस्थितेस्त्याज्यं ततश्चार्वाकदर्शनम् ॥ पापाः किलैतदाखापाः सद्व्यापार विरोधिनः ॥ ३० ॥ ज्ञानदणावली रूपो नित्यो नात्मेति सौगताः ॥ क्रमाक्रमाच्यां नित्यत्वे युज्यतेऽर्थक्रिया न हि ॥ ३१ ॥ स्वभावहानितो धौव्यं क्रमेणार्थक्रियाकृतौ ॥ श्रक्रमेण च तद्भावे युगपत्सर्वसंभवः ॥ ३२ ॥ ऋषिके तु न दोषोऽस्मिन् कुर्वडूप विशेषिते || ध्रुवेणोत्यतृष्णाया निवृत्तेश्च गुणो महान् ॥ ३३ ॥ मिथ्यात्व वृद्धिकृन्नूनं तदेतदपि दर्शनम् || क्षणिके कृतदा निर्यत्तथात्मन्यकृतागमः ॥ ३४ ॥ एकव्यान्वयाजावाद्वासनासंक्रमश्च न ॥ पौर्वापर्य्यं हि नावानां सर्वत्रातिप्रसक्तिमत् ॥ ३५ ॥ कुर्वद्रूपविशेषे च न प्रवृत्तिर्न वाऽनुमा ॥ श्रनिश्चयान्न वाध्यक्षं तथा चोदयतो जगौ ॥ ३६ ॥ न वैजात्यं विना तत् स्यान्न तस्मिन्ननुमा जवेत् ॥ विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥ ३७ ॥ एकताप्रत्यभिज्ञानं क्षणिकत्वं च बाधते ॥ योऽहमन्वनवं सोऽहं स्मरामी| त्यवधारणात् ॥ ३० ॥ नास्मिन्विषयबाधो यत् क्षणिकेऽपि यथैकता | नानाज्ञानान्वये तहत् स्थिरे नानाक्षणान्वये || ३ || नाना कार्यैक्य करणस्वानाव्ये च विरुध्यते ॥ स्याद्वादसन्निवेशेन नित्यत्वेऽर्थक्रिया न हि ॥ ४० ॥ नीलादावप्यतद्भेदशतयः सुवचाः कथम् ॥ परेणापि हि नानेकस्वजावोपगमं विना ॥ ४१ ॥ धुवेोऽपि न प्रेम निवृत्तमनुपलवात् ॥ ग्राह्या अधिकार. १३ ॥ १४ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy