________________
ज्ञान
॥ १६२ ॥
यान्ति, अक्षजस्यैव व्यवहारतः प्रत्यक्षत्वात् । तस्मात्सकलेऽपि श्रुतज्ञाने दर्शनशब्दो न जवति । तथा च व्यंजनावग्र हाविषयार्थप्रत्यक्षत्वमेव दर्शनत्वमिति पर्यवसन्नं । प्रत्यक्षपदादेव श्रुतज्ञानवदनुमित्यादेर्व्यावृत्तौ परोक्ष निन्नत्वे सतीति विशेषणं न देयं, "मुत्तूण लिंग जं” इत्युक्तस्याप्यत्रैव तात्पर्य प्रष्टव्यम् । इत्थं चाचतुर्दर्शनमित्यत्र नञः पर्युदासार्थकत्वादचकुर्दर्शनपदेन मानसदर्शनमेव ग्राह्यं श्रप्राप्यकारित्वेन मनस एव चक्षुः सदृशत्वान्न प्राणदर्शनादीति सर्वमुपपद्यते । | तथा चावभिदर्शनमपि कथं संगष्ठते, तस्य व्यंजनाबग्रह विषयार्थमा हित्वेऽपि व्यवहारतः प्रत्यक्षत्वानावादित्याशंकायाः प्रत्यक्षपदस्य व्यवहार निश्चयसाधारणप्रत्यक्षार्थत्वात्, अवधिज्ञानस्य च नैश्चयिकप्रत्यक्षत्वाव्याहतेः परिहारमजिप्रा (प्रे) यन्नाद"जं श्रप्पुछा जावा उहिनाणस्स होंति पच्चरका । तम्हा उहिनाऐ दंससदो वि उवत्तो ॥ २७ ॥ स्पष्टा । उपयुक्तः |सन्धनिमित्तावकाशः केवलज्ञानेऽपीदं लक्षणमव्याहतमित्याह - "जं पुढे जावे जाणइ पासइ य केवली यिमा । तम्हा तं नाणं दंसणं च श्रविसेस सिद्ध ॥ २८ ॥ " यतोऽस्पृष्टान् जावान्नियमेनावश्यंतया केवली चक्षुष्मानिव पुरः स्थितं जानाति पश्यति चोजयप्राधन्येन तस्मात्तत्केवलज्ञानं दर्शनं चाविशेषत उत्जयानिधाननिमित्तस्या विशेषात्सिद्धं । मनःपर्यायज्ञानस्य तु व्यंजनावग्रहाविषयार्थकप्रत्यक्षत्वेऽपि बाह्यविषये व्यभिचारेण स्वग्राह्यतावच्छेदकावच्छेदेन प्रत्यक्षत्वाभावान्न दर्शनत्वमिति निष्कर्षः । श्रत्र यट्टीकाकृता प्रमाणप्रमेययोः सामान्य विशेषात्मकत्वेऽप्यपनीतावरणे युगपदुभयस्वनावो बोधः, उमस्थावस्थायां त्वनपगतावरणत्वेन दर्शनोपयोगसमये ज्ञानोपयोगाजावादप्राप्यकारिनयनमनः प्रजवार्थावग्रहादि, | मतिज्ञानोपयोगप्राकाले चतुरचतुर्दर्शने, श्रवधिज्ञानोपयोगप्राक्काले चावधिदर्शनमाविर्भवतीति व्याख्यातं तदर्धजरतीय
बिन्दुः
॥ १६२ ॥