________________
ज्ञान
॥ १५७ ॥
अन्यतरोत्पादे तदितरस्याप्युत्पादप्रसंगात्, अन्यतरसामध्या अन्यतरप्रतिबन्धकत्वे चोजयोरप्यनावप्रसंगात् " सचार्ट लगी सागारोवगोवउत्तस्सेति ” वचनप्रामाण्यात्प्रथमं केवलज्ञानस्य पश्चात्केवलदर्शनस्योत्पाद इति चेन्न, एतदचनस्य लब्धियौगपद्य एव साक्षित्वाऽपयोगक्रमाक्रमयोरौदासीन्यात् । यौगपद्येनापि निर्वाहेऽर्थाद्दर्शनेऽनन्तरोत्पत्त्य सिद्धेः एकक्षणोत्पत्तिककेवलज्ञानयोरेकक्षणन्यूनाधिकायुष्कयोः केवलिनोः क्रमिकोपयोगघ्यधाराया निर्वाहयितुमशक्यत्वाच्च । श्र ज्ञानोपयोगसामान्ये दर्शनोपयोगत्वेन हेतुतेति निर्विकरूपकसमाधिरूपवद्मस्थकालीनदर्शनात् प्रथमं केवलज्ञानोत्पत्तिः || केवलदर्शने केवलज्ञानत्वेन विशेषहेतुत्वाच्च द्वितीयक्षणे केवलदर्शनोत्पत्तिः, ततश्च क्रमिकसामग्री घ्यसंपत्त्या क्रमिकोपयोगघ्यधारा निर्वाह इति, एकक्षणन्यूनाधिकायुष्कयोस्त्वेकक्षणे केवलज्ञानोत्पत्त्यस्वीकार एव गतिरिति चेन्न, “ दंसणपुबं नाणं ” इत्यादिना तथाहेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात् उत्पन्नस्य केवलज्ञानस्य क्षायिकजावत्वेन नाशायोगाच्च । न च मुक्तिसमये क्षायिकचारित्रनाशवदुपपत्तिः, क्षायिकत्वेऽपि तस्य योगस्थैर्य निमित्तकत्वेन निमित्तनाशनाश्यत्वात्, केवलज्ञानस्य चानैमित्तिकत्वादुत्पत्तौ शप्तौ चावरणक्ष्यातिरिक्तनिमित्तानपेक्षत्वेनैव तस्य स्वतंत्रप्रमाणत्वव्यवस्थितेः, | अन्यथा सापेक्ष मसमर्थमिति न्यायात्तत्राप्रामाण्यप्रसंगात् । एतेन केवलदर्शनसामग्रीत्वेन स्वस्यैव स्वनाशकत्वमिति केव| लज्ञान (स्य) क्षणिकत्वमित्यप्यपास्तम्, अनैमित्तिके क्षणिकत्वायोगात्, अन्यथा तत्क्षण एव तत्क्षणवृत्तिकार्ये नाशक इति | सर्वत्रैव सूक्ष्म र्जुसूत्रनयसाम्राज्यस्य दुर्निवारत्वादिति किमतिपक्ष वितेन ? । नन्वियमनुपपत्तिः क्रमोपयोगपक एवेत्यक्रमौ धावुपयोगौ स्तामित्याशंकते मलवादी, “जवेघा समयमेककालमुत्पादस्तयोरिति ” तत्रैकोपयोगवादी ग्रन्थकृत् सिया
बिन्दुः
॥ १५७