________________
ज्ञान
॥ १५६ ॥
बध्यप्रतिबन्धकजावाद्यजावेन विशेषात् । एतदेवाह - "जाइ खीणावरणे, जह मनाएं जिसे ए संभवइ । तह खीणावर - थियो, विसेस दंसणं एत्थ ॥ ४ ॥ " नष्यते निश्चित्योच्यते दीणावरणे जिने यथा मतिज्ञानं मत्यादिज्ञानं अवग्रहादि - चतुष्टयरूपं वा ज्ञानं न संभवति, तथा क्षीणावरणीये विश्लेषतो ज्ञानोपयोगकालान्यकाले दर्शनं नास्ति क्रमोपयोगत्वस्य |मत्याद्यात्मकत्वव्याप्यत्वात्सामान्यविशेषोजयालंबनक्रमोपयोगत्वस्य चावग्रहाद्यात्मकत्वव्याप्यत्वात्केवलयोः क्रमोपयोगत्वे तत्त्वापत्तिरित्यापादनपरोऽयं ग्रन्थः । प्रमाणं तु केवलदर्शनं केवलज्ञानतुल्यकालोत्पत्तिकं, तदेककालीनसामग्री कत्वात्, | तादृशकार्यान्तरवत्, इत्युक्ततर्कानुगृहीतमनुमानमेवेति द्रष्टव्यम् । न केवलं क्रमवादिनोऽनुमान विरोधः, अपि त्वागमविरोधोऽपीत्याह - "सुप्तंमि चेव साइठापवसियं ति केवलं वृत्तं । सुत्तासायनी रुहिं तं व दध्वयं होइ ॥ ५ ॥ " साद्यपर्यवसिते केवलज्ञानदर्शने सूत्रे प्रोफे, क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता ? तेन सूत्राशातनाजी रुचिः क्रमोपयोगवादिनिस्तदपि द्रष्टव्यं । चोऽप्यर्थः । न केवलं "केवली णं जंते इमं रयणप्पनं पुढवि' इत्याद्युक्तसूत्रयथा श्रुतार्थानुपपत्तिमात्रमिति जावः । न च व्यापेक्षयाऽपर्यवसितत्वं, 5व्यविषयप्रश्नोत्तराश्रुतेः । न चार्पितानर्पितसिद्धेरिति तत्त्वार्थसूत्रानुरोधेन व्यार्पणयोः (अ) श्रुतयोरपि तयोः कडपनं युक्त, अन्यथा पर्यायाणामुत्पादविगमात्मकत्वानवतोऽपि कथं तयोरपर्यवसानतेति पर्यनुयोज्यं ? यद्धर्मावचिने क्रमिकत्वप्रसिद्धिः, तधर्मावचिन्नेऽपर्यवसितत्वान्वयस्य निराकांधत्वात्, अन्यथा जुत्ववक्रत्वे श्रपर्यवसिते इति प्रयोगस्यापि प्रसंगात् मम तु रूपरसात्मकैकद्रव्यवदक्रमजाविनिनोपाधिकोत्पादविगमात्मकत्वेऽपि केवलिषन्यादव्यतिरेकतस्तयोरपर्यवसितत्वं नानुपपन्नम् । अथ पर्यायत्वावछेदकधर्मवि
बिन्दुः
॥ १५६ ॥